भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 38

38.1

तत्रैतानि गुह्यमुद्राहृदयानि भवन्ति ।
रतिवज्र ॥
रागवज्र ॥
प्रीतिवज्र ॥
कामवज्र ॥
ततः सर्वतथागतपूजाकर्ममहामुद्राज्ञानं शिक्षयेत् ।
हृत्पार्श्वपृष्ठतो योगाल्ललाटादेस्तथैव च ।
मुखकर्णशिरःपृष्ठमूर्धासासकटिस्थितेति ॥
ततः सर्वतथागतपूजाकर्मसमयमुद्राज्ञानं शिक्षयेत् ।
वज्रबन्धं दृढीकृत्य महामुद्राप्रयोगतः ।
हृदयादिस्थानयोगेन स्थापयन्पूजयेज्जिनान् ॥ इति ॥
ततः सर्वतथागतपूजाधर्मज्ञानं शिक्षयेत् ।
ओं ग्रयः य्यः सा ।
त्रि रं हं नः ।
खं षं हूं हि ।
श ण सिः सं ।
कर्ममुद्राः समासेन कर्ममुद्रा द्विधीकृता ॥ इति ॥
सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रकार्यकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 5 एपिलोगुए ओf थे सर्व-तथगत-महयनभिसमय नम मह-कल्प-रज
1.5 एमनतिओन् ओf देइतिएस्
अथ भगवान् वैरोचनस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्य, अस्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिदं सर्वतथागतमुद्राहृदयमभाषत् ओं सर्वतथागतमुष्टि वं ॥
अथ खल्वक्षोभयस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रसत्वमुष्टि अः ॥
अथ रत्नसंभवस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्ररत्नमुष्टि त्रं ॥
अथामितायुस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रधर्ममुष्टि खं ॥
अथामोघसिद्धिस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रकर्ममुष्टि हां ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रपाणिर्महाबोधिसत्वः स्वाधिष्ठानेन भगवतो वैरोचनस्य तथागतस्य सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहायेदं वज्रसिद्धिन्नाम चतुर्मुद्रामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रसिद्धिरिति स्मृतं

38.2

महामण्डलयोगेन सूत्रयेत विचक्षणः ।
बुद्धबिम्बन्निवेश्यादौ लिखेन्मुद्राचतुष्टयं

38.3

॥
चन्द्रमण्डलमध्येषु वज्रमुद्रादयो लिखेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc