भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 39

39.1

इनितिअतिओन् इन्तो थे मन्दल
अथात्र वज्रसिद्धिमुद्रामण्डल आकर्षणादिविधिविस्तरङ्कृत्वा तथैव प्रवेश्यैवं ब्रुयात् । "न त्वया कस्यचिदिमं रहस्यपटलमुद्घाटयितव्यं । तत्कस्य हेतोः? सन्ति सत्वा दुर्दृष्टयः पापकर्माणो हीनवीर्या वैकल्यरहिताः चित्रकर्मण्यनभिज्ञाः; ते वज्रधात्वादिषु सर्वतथागतकुलमण्डलेषु महत्स्विति कृत्वा हीनवीर्यतया न प्रविशन्ते । तेषामर्थायेदं वज्रसिद्धिमुद्रामण्डलं सर्वतथागतकुलमण्डलसमयभूतमशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतवज्रोत्तमसिद्धिनिमित्तमधिष्ठितमिति । न त्वयैषां सर्वतथागतकुलसमयमुद्रारहस्यानां न प्रत्यभिश्रद्धानीयं । मा ते नरकतिर्यक्प्रेतोपपत्तिः स्यात्, विषमापरिहारेण वाकालमरणं स्याद्" इत्युक्त्वा, मुखबन्धं मुक्त्वा मण्डलं दर्शयेत् ।
मुद्र
ततः सर्वतथागतमुद्रासमयं ब्रूयात् ।
यां यां मुद्रां तु बध्नीयाद्य[स्य य]स्य महात्मनः ।
जपंस्तु हृदयार्थेन भावयेत्तं स्वमात्मना

39.2

अनेन ज्ञानयोगेन सिद्धिं यान्ति महात्मनां ।
सर्वमुद्रास्तु सर्वेषां वज्रपा[णेर्व]चो यथा

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc