भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 37

37.1

तत्रैतानि हृदयानि भवन्ति ।
वज्रकाय ॥
धर्मकाय ॥
सत्वकाय ॥
बुद्धकाय ॥
ततो रहस्यपूजामुद्राज्ञानं शिक्षयेत् ।
सर्वकायपरिष्वङ्गसुखपूजा स्वयंभुवा ।
निर्यातयं भवेच्छीघ्रं वज्रसत्वसमो हि सः

37.2

दृढानुरागसंयोगकचग्रहसुखानि तु ।
निर्यातयंस्तु बुद्धानां वज्ररत्नसमो भवेत्

37.3

दृढप्रतीतिसुखसक्तिचुम्बिताग्र्यसुखानि तु ।
निर्यातयंस्तु बुद्धानां वज्रधर्मसमो भवेत्

37.4

द्वयेन्द्रियसमापत्तियोगसौख्यानि सर्वतः ।
निर्यातयंस्तु पूजायां वज्रकर्मसमो भवेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc