सर्वतथागततत्त्वसंग्रह · अध्याय 35
तत्रैतानि भवन्ति ।
प्रणमामि ॥
अनुमोदे ॥
बुद्धपूज ॥
परिणाम ॥
ततो धर्मपूजामुद्राज्ञानं शिक्षयेत् ।
प्रकृतिप्रभास्वरा धर्मा ह्यादिशुद्धाः स्वभावतः ।
पूजितो ऽनेन धर्मेण लभेद् रतिसुखानि तु
अ-कारस्तु मुखं वाच्यं सर्वधर्मसमुच्चये ।
अनया धर्ममुद्रया सर्वदुःखांश्छिनत्ति सः
सर्वेषामेव धर्माणां हेतुरत्र तथागतः ।
सद्धर्मचक्रपूजया पूज्य धर्मधरो भवेत्
प्रतिश्रुत्कोपमानुक्त्वा सर्वधर्मा स्वभावतः ।
अनया धर्मपूजया संपूज्य स्वरतां लभेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0