सर्वतथागततत्त्वसंग्रह · अध्याय 34
इति ॥
तत्रेमानि हृदयानि भवन्ति ।
बुद्धात्माहं ॥
बुद्धमभिषिञ्चामि ॥
बुद्धस्तुतिङ्करोमि ॥
बुद्धपूजाङ्करोमि ॥
ततः सर्वबुद्धपूजामुद्राज्ञानं शिक्षयेत् ।
कायवाक्चित्तवज्राग्र्यप्रयोगैः प्रणमन्तथा ।
पूजयं सर्वबुद्धांस्तु वन्दनीयो भवेद् ध्रुवं
सर्वबुद्धमहापुण्यकायावाक्चित्तवज्रजं ।
अनुमोदनपूजात्मा बुद्धत्वं क्षिप्रमाप्नुयात्
आत्मानियतिनाद् दिव्यकायवाक्चित्तवज्रतः ।
सर्वपूजाभिः संबुद्धान् पूजयामीति पूज्यते
सर्व कुशलसंभारङ्कायवाक्चित्तवज्रतः ।
परिणामनपूजाभिः सर्वबुद्धसमो भवेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0