भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 36

36.1

तत्रैतानि हृदयानि भवन्ति ।
सर्वशुद्ध ॥
समन्तभद्र ॥
धर्मचक्र ॥
निःप्रपञ्च ॥
ततः समाधिपूजामुद्राज्ञानं शिक्षयेत् ।
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः ।
भावयन्वज्रविम्बानि वज्रात्मा भवे[त्क्षिप्रं]

36.2

कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः ।
भावयन् सर्वबुद्धांस्तु धर्मकायो भवेल्लघु

36.3

कायवाक्चित्तवज्रेषु स्व(कीयाःपरमा)णवः ।
भावयन्वज्रसत्वांस्तु वज्रसत्वसमो भवेत्

36.4

कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः ।
भावयन् बुद्धबिम्बानि संबुद्धत्वमवाप्नुयाद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc