सर्वतथागततत्त्वसंग्रह · अध्याय 33
दृ क्कि । ग्र ग्र । म टः । अ ग्र ।
त्रं त्रं । अं अं । चं चं । त्र टः ।
धृ टः । भृ टः । क्र सः । ह हः ।
व व । वं वं । फ टः । ग्र सः ॥
ततस्तु धर्मकर्माग्र्य शिक्षयेत्सूक्ष्मवज्रिणं ।
ज्ञानमुष्टिन्तु समायां द्विधीकृत्य प्रयोजयेद् ॥ इति ॥
सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद् वज्रज्ञानधर्ममण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 4 वज्र-कर्य-कर्म-मन्दल-विधि-विस्तर
इ.4 एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागतानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानन् नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागत वज्रधात्वनुत्तरपूजास्फरण समये हूं ॥
अथ खल्वक्षोभयस्तथागताः सर्वतथागतवज्रसत्वानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसत्वानुत्तरपूजास्फरणसमये हूं ॥
अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्ररत्नानुत्तरपूजास्फरणसमये हूं ॥
अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठाननाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रधर्मानुत्तरपूजास्फरणसमये हूं ॥
अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रकर्मानुत्तरपूजास्फरणसमय हूं ॥
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतपूजाविधिविस्तरसकलधर्मधातुस्फरणकर्मसमयवज्रन्नाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः स एव भगवां वज्रधरः सकलधर्मधातुस्फरणाः सर्वाकाशधातुसमवसरणाः सर्वविचि[त्र]पूजाव्यूहविधिविस्तरमेघसमुद्रदेवता भूत्वा विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रसर्वतथागतपर्षन्मडलेषु सर्वतथागतानुत्तरमहाबोधिचित्तोत्पादनसर्वतथागतकुलारागणसमन्तभद्रचर्यानिष्पादनमहो बोधिमण्डपसंक्रममणसर्वमारधर्षणसर्वतथागत[समता]भिसंभुध्यनसर्वतथागतमहामण्डलोत्पादनसकलत्रिलोकविजयसद्धर्मचक्रप्रवर्तनाशेषानवशेषसत्वधात्वर्थकरणादिनि सर्वबुद्धर्द्धिविकुर्वितानि सन्दर्शयन्तो ऽवस्थिताः ॥
ताश्च पूजामेघसमुद्रदेवताः स्वमुद्राव्यग्रकरयुगलाः सर्वतथागतान् विधिवत्संपूज्य, वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामासुः ।
अहो हि बुद्धपूजाहं सर्वपूजाप्रवर्तिका ।
यद्बुद्धत्वमहत्वं तु सर्वबुद्धददन्ति हि ॥
अथ वज्रपाणिः पुनरपि सर्वतथागतपूजादिकर्मविधिविस्तरं वज्रकार्यन्नाम कर्ममण्डलमभाषत् ।
ओं सर्वतथागतसर्वात्मनिर्यातनपूजास्फरण कर्मवज्रि अः ।
ओं सर्वतथागतसर्वात्मनिर्यातनाकर्षणपूजास्फरण कर्माग्रि ज्जः ॥
ओं सर्वतथागतसर्वात्मानिर्यातनानुरागणपूजास्फरण कर्मवाणे हूं होः ॥
ओं सर्वतथागतसर्वात्मनिर्यातनसाधुकारपूजास्फरण कर्मतुष्टि अः ॥
सर्वतथागतसुखसुखा, सर्वतथागताकर्षणी, सर्वतथागतानुरागिणी, सर्वतथागतसंतोषणी चेति सर्वतथागतमहापूजाः ॥
ओं नमः सर्वतथागतकायाभिषेकरत्नेभ्यो वज्रमणिं ओं ॥
ओं नमः सर्वतथागतसूर्येभ्यो वज्रतेजिनि ज्वाल ह्रीः ॥
ओं नमः सर्वतथागताशापरिपूरणचिन्तामणिध्वज्राग्रेभ्यो वज्रध्वजाग्रे त्रं ॥
ओं नमः सर्वतथागतमहाप्रीतिप्रामोद्यकरेभ्यो वज्रहासे हः ॥
महाधिपतिनी, महोद्योता, महारत्नवर्षा, महाप्रीतिहर्षा चेति सर्वतथागताभिषेकपूजाः ॥
ओं सर्वतथागतवज्रधर्मतासमाधिभिः स्तुनोमि महाधर्माग्रिह्रीः ॥
ओं सर्वतथागतप्रज्ञापारमितानिर्हारैः स्तुनोमि महाघोषानुगे धं ॥
ओं सर्वतथागतचक्राक्षरपरिवर्तादिसर्वसूत्रान्तनयैः स्तुनोमि सर्वमण्डले हूं ॥
ओं सर्वतथागसन्धाभाषबुद्धसंगीतिभिर्गायन् स्तुनोमि वज्रावाचे वं ॥
महाज्ञानगीता, महाघोषानुगा, सर्वमण्डलप्रवेशा, मन्त्रचर्या चेति ।
सर्वतथागतधर्मपूजाः ॥
ओं सर्वतथागतधूपमेघस्फरणपूजाकर्मे कर कर ॥
ओं सर्वतथागतपुष्पप्रसरस्फरणपूजाकर्मे किरि किरि ॥
ओं सर्वतथागतालोकज्वालस्फरणपूजाकर्मे भर भर ॥
ओं सर्वतथागतगन्धसमुद्रस्फरणपूजाकर्मे कुरु कुरु ॥
सत्ववती, महाबोध्यङ्गवती, चक्षुष्मती, गन्धवती चेति । सर्वतथागतकर्मपूजाः ॥
देलिनेअतिओन् ओf थे मन्दल
अथात्र वज्रकार्यकर्ममण्डलं भवत्यशेषानवशेषतथागतपूजाप्रवर्तकमिति ॥
अथातः संप्रवक्ष्यामि कर्मण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रकार्यमिति स्मृतं ॥
महामण्डलयोगेन बुद्धबिम्बान्निवेशयेत् ।
वज्रसत्वादियोगेन समुद्रा देवता लिखेद् ॥ इति ॥
इनितिअतिओन् इन्तो थे मन्दल
अथात्र वज्रकार्यकर्ममण्डलप्रवेशादिविधिविस्तरो भवति ॥
तत्रादित एव प्रवेशयेत् वज्रधातुप्रवेशयोगेन । प्रवेश्यैवं वदेत् । "सर्वतथागतपूजासमयो ऽयं । तत्त्वया दिनेदिने एताः षोडशपूजा यथाशक्तितः कार्या" इति ॥
ततो मुखबन्धं मुक्त्वा, कर्ममण्डलं दर्शयित्वा, विश्वचिन्हं पाणिभ्यां
दद्यात् ॥
ततः सर्वतथागतैरपि स पूज्यते, कः पुनर्वादो ऽन्यैरिति ॥
मुद्र
ततो महबोधिचित्तनिष्पत्तिपूजामुद्राज्ञानं शिक्षयेत् ।
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् ।
रत्ना तु पुजयन्नात्मा लभेद् बुद्धसुखान्यपि
बोधिचित्तदृढोत्पादाद् बुद्धो ऽहमिति चिन्तयन् ।
मलादिभिः प्रपूजाभिः संपूज्यात्माभिषिच्यते
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् ।
गीतिसौख्यप्रपूजाभिः संपूज्यात्मा स रागयेत्
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् ।
नृत्यतः पूजयन्नात्मा बुद्धैरपि स पूज्यते
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0