भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 32

32.1

ततः सर्वतथागतज्ञानवज्राधिष्ठानसमाधिमुद्राज्ञानं शिक्षयेत् ।
सूक्ष्मवज्रप्रयोगेण भावयेद्वज्रमध्यतः ।
बुद्धबिम्बं स्वमात्मानं बुद्धत्वं सो ह्यवाप्नुयाद् ॥ इति ॥
ततो वज्रसत्वसमाधिमुद्राज्ञानं शिक्षयेत् ।
सुक्ष्मवज्रविधिं योज्य हृदि वज्रादयो गणाः ।
भावयं वज्रसत्वाद्याः प्रददन्ति स्वसिद्धये ॥ इति ॥
ततः सर्वतथागतकुलसमाधिसमयमुद्राज्ञानं शिक्षयेत् ।
वज्रबन्धसमुद्भूताः षोडशस्तु प्रकीर्तिताः ।
समाधिसमयाग्र्यस्तु तासां बन्धः प्रवक्ष्यते

32.2

पर्यङ्कस्था समुत्ताना वलितोद्ववलिता तथा ।
हृदिस्था च चतुर्थी तु वज्रसत्वादिमण्डले

32.3

ललातस्था शिरः पृष्ठे स्कन्धे हासप्रयोजिता ।
मुखधात्री हृदि खड्गा हृद्विकासा मुखस्थिता

32.4

मू(र्धन्)वक्षस्तु वक्त्रस्था ज्येष्ठस्था पुरतस्तथा ।
अतः परं समासेन धर्ममुद्रास्तु शिक्षयेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc