भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 29

29.1

तत्रैतानि हृदया[नि भवन्ति] ।
महामैत्र्या स्फर ॥
महाकरुणया स्फर ॥
सर्वशुद्ध प्रमोद स्फर ॥
सर्वसत्वान् संबोधय ॥
ततः सर्वतथागतानुस्मृतिज्ञानं शिक्षयेत् ।
आकाशे वान्यदेशे वा सूक्ष्मवज्रप्रयोगतः ।
उत्थितो वा निषण्णो वा वज्रबिम्बं तु भावयेत्

29.2

तथैव सर्वस्थानेषु सुक्ष्मवज्रप्रयोगतः ।
हृद्वज्रं बोधिसत्वं तु भावयेत्सुसमाहितः

29.3

वज्रपाणिमहाबिम्बं सर्वस्थानेषु भावयेत् ।
सूक्ष्मवज्रप्रयोगेण यथावदनुपूर्वशः

29.4

सर्वाकारवरोपेतं बुद्धबिम्बं तु सर्वतः ।
यथावदनुपूर्वेण भावयेत्सुसमाहित ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc