सर्वतथागततत्त्वसंग्रह · अध्याय 30
तत्रैतानि हृदयानि भवन्ति ।
वज्रामुखीभव ॥
महाबोधिसत्वाविश ॥
वज्रपाणि दर्शय स्वं रूपं ॥
बुद्धानुस्मृत्याविश ॥
सूक्ष्मवज्रप्रयोगेण भावयेत्स्वयमात्मना ।
चन्द्रबिम्बं स्वमात्मानं बोधिचित्तस्य भावना
चन्द्रमण्डलमध्ये तु भावयेत्स्वयमात्मना ।
वज्रबिम्बं स्वमात्मानं सत्ववज्रस्य भावना
सूक्ष्मवज्रविधिं योज्य भावयेत्स्वयमात्मना ।
सत्ववज्रहृदात्मानं वज्रसत्वस्य भावना
सर्वाकारवरोपेतं भावयेत्स्वयमात्मना ।
बुद्ध बिम्बं स्वमात्मानं बुद्धबोधेस्तु भावना ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0