भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 28

28.1

अथैषां हृदयानि भवन्ति ।
सूक्ष्म वज्र ॥
स्फर वज्र ॥
संहर वज्र ॥
वज्र दृढ तिष्ठ ॥
मैत्री यस्य सत्वस्य सह भूयात् महादृढा ।
चित्तस्फरणयोगेन सर्वसत्वेषु तां स्फरेत्

28.2

मैत्रीस्फरणयोगेन कारुण्यं यस्य कस्यचित् ।
सर्वसत्वार्थयुक्तस्तु स्फरेद्वै प्रतिपत्तितः

28.3

प्रकृतिप्रभास्वराः सर्वे ह्यादिशुद्धा नभःसमाः ।
अधर्मो ऽप्यथ वा धर्म्[अः स्फ]रं भावेन तुष्यति

28.4

दुर्दुरूटसममुख्या बुद्धबोधावभाजयाः ।
तेषां संशोधनार्थाय महोपेक्षां तु भावयेद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc