सर्वतथागततत्त्वसंग्रह · अध्याय 26
इति ॥
अथासां सर्वमुद्राणां बन्धादिति कर्माणि भवन्ति ।
वज्रवेशं समुत्पाद्य आत्मनश्च परस्य वा ।
बन्धयेद्वा बन्धयेद्वापि अनेन हृदयेन तु ॥
वज्र हूं बन्ध ॥
अथ मोक्षो भवति ।
यतो यतः समुत्पन्नाः सर्वमुद्राः समासतः ।
तत्र तत्र तां मुञ्चेदनेन हृदयेन तु ॥
ओं वज्र मुः ॥
अथ दृढीकरणं भवति ।
रत्न वज्रां दृढीकृत्य हृदयान्मूर्ध्नि मोक्षिता ।
अग्राभ्यां कवचं बन्धेदनेन हृदयेन तु ॥
ओं दृढ वज्रकवच धृट् ॥
अथ बन्धसमयो भवति ।
यथा स्थानेषु वै मुक्ता कवचेन दृढीकृता ।
निबन्धेत्तालया सर्वा ह्यनेन हृदयेन तु ॥
ओं गुह्यसमयताल सः ॥
वज्रसत्वो रुचिजप्तिः सर्वमण्डलकर्मसु ।
प्रयोक्तव्यो ऽत्र समये सर्वसिद्धिकरः परम् ॥ इति ॥
सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रगुह्यवज्रमण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 3 वज्र-ज्नन-धर्म-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागतसूक्ष्मवज्रज्ञानमुद्रासमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सूक्ष्मवज्रज्ञानसमय हूं ॥
अथ खल्वक्षोभ्यः तथागतः सर्वतथागतवज्रसत्वसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रसत्व सूक्ष्मज्ञानसमय हूं ॥
अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्ररत्न सूक्ष्मज्ञानसमय हूं ॥
अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रधर्म सूक्ष्मज्ञानसमय हूं ॥
अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रकम सूक्ष्मज्ञानसमय हूं ॥
अथ भगवान् वैरोचनः सर्वतथागतसूक्ष्मज्ञानवज्रं नाम समाधिं समापन्नः, समनन्तरसमापन्ने च भगवत्यथ तावदेव सर्वतथागतहृदयेभ्यः सूक्ष्मज्ञानवज्ररश्मयो विनिश्चरित्वा, सर्वलोकधातवो ऽवभास्य सर्वसत्वानां, सर्वतथागतसूक्ष्मज्ञानवज्रसमाधिसमापत्तीन् दृढी कृत्य पुनरप्येकध्यीभूत्वा, समाधिज्ञानवज्रकायतामध्यालम्ब्यैकघनस्तथागतज्ञानः संभूय, भगवतो वैरोचनस्य हृदये प्रविष्टः ॥
अथ वज्रपाणिः सर्वतथागतज्ञानहृदयेभ्यः प्रविष्ट्वेदं सर्वतथागतसूक्ष्मज्ञानमहासमयवज्रमभाषत् सूक्ष्मवज्र ॥
अथास्मिन् भाषितमात्रे सर्वतथागतहृदयेभ्यो वज्रपाणिर्विनिःसृत्य, सर्वतथागतसूक्ष्मज्ञानवज्रबिम्बमात्मानमधिष्ठाय, सर्वतथागतनासिकाग्रेषु स्थित्वेदमुदानमुदानयामास । अहो हि सर्वबुद्धानां सूक्ष्मवज्रमहं महत् । यन्महत्वात्स सूक्ष्मो ऽपि त्रैधातुकमपि स्फरेद् ॥ इति ॥
अथेदमुक्त्वा भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतनासिकाग्रेभ्यः सुसूक्ष्मवज्रज्ञाननिमित्तस्फरणताय सर्वतथागतकायेभ्यः स्फरित्वा, सकलधर्मधातुस्फरणतायोगेन सर्वाकाशधातुं सुसूक्ष्मवज्रज्ञाननिमित्तैः संस्फर्य, सकलाकाशधातुविस्फरितसर्वतथागतज्ञानवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥
अथ तस्मिन्नेव क्षणे सर्वतथागताः सर्वतथागतज्ञानवज्रमध्ये वज्रधर्मतामध्यालम्ब्य, सर्वतथागतसूक्ष्मज्ञानवज्राधिष्ठानन्नाम समाधिं समापद्यावस्थिताः ॥
अथ ततः सर्वतथागतज्ञानवज्रात्सर्वतथागतसमाधिज्ञानहृदयं निश्चचार वज्रनाभि तथागत हूं ॥
अथास्मिन् विनिःसृतमात्रे भगवान् वज्रपाणिः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन सर्वतथागतकायेषु प्रविष्ट्वा, हृदये वज्रबिम्बानि भूत्वावस्थिताः ।
अथ तेभ्यः सर्वतथागतसत्ववज्रेभ्य इदं महाज्ञानहृदयचतुष्टयं निश्चचार ।
वज्रात्मक ॥
हृद्वज्राङ्कुश ॥
तिष्ठ रागवज्र प्रविश हृदयं ॥
अहो वज्रतुष्टि ॥
वज्रसत्वज्ञानमुद्रः, सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रः, सर्वतथागतानुरागणज्ञानमुद्रः, महातुष्टिज्ञानमुद्रश्चेति । सर्वतथागतमहावज्रसमाधयः ॥
अथ वज्रपाणिः सर्वतथागतहृदयः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन स्वहृदयं प्रविष्ट्वा हृदये वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥
अथ ततो वज्रविग्रहादिदं हृदयचतुष्टयं निश्चचार ।
वज्ररत्नात्मक ॥
हृदय वज्रसूर्य ॥
तिष्ठवज्रध्वजाग्र वं ॥
हृदयवज्रहास ॥
सर्वतथागतवज्राभिषेकज्ञानमुद्रः, महाप्रभामण्डलव्यूहज्ञानमुद्रः, सर्वतथागताशापरिपूरणज्ञानमुद्रः, सर्वतथागतमहाहासज्ञानमुद्र इति । सर्वतथागतरत्नसमाध्यः ॥
अथ वज्रपाणिः पुनरपि सूक्ष्मवज्रज्ञानप्रवेशयोगेन स्वहृदयं वज्रहृदयं प्रविष्ट्वा वज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥
अथ ततो वज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार ।
वज्रपद्मात्मक ॥
हृद्वज्रकोश ॥
तिष्ठ वज्रचक्र हृदयं प्रविश ॥
वज्रजिव्हाग्र हृदय ॥
सर्वधर्मसमताज्ञानमुद्रः, सर्वतथागतप्रज्ञाज्ञानमुद्रः, महाचक्रप्रवेशज्ञानमुद्रः, सर्वतथागतधर्मवाग्निःप्रपञ्चज्ञानमुद्र इति । सर्वतथागतधर्मसमाधयः ॥
अथ वज्रपाणिः पुनरपि स्वहृदयवज्रहृदयवज्रात् सुसूक्ष्मज्ञानप्रवेशयोगेन तद्वज्रहृदयं प्रविष्ट्वा, पुनरपि सूक्ष्मवज्रबिम्बमात्मानमधिष्ठायावस्थितः ॥
अथ ततः सूक्ष्मवज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार ।
सर्ववज्रात्मक ॥
हृद्वज्रकवच ॥
तिष्ठ वज्रयक्ष हृदय ॥
वज्रमुष्टिहृदय ॥
सर्वतथागतविश्वकर्मज्ञानमुद्रः, दुर्योधनवीर्यज्ञानमुद्रः, सर्वमारमण्डलविध्वंसनज्ञानमुद्रः, सर्वतथागतबन्धज्ञानमुद्र इति । सर्वतथागतकर्मसमाधयः ॥
अथ भगवान् वज्रपाणिः पुनरपि सुसूक्ष्मज्ञाननिमित्तस्फरणयोगेन सर्वतथागतकायेभ्यो निःक्रम्य, वज्रपाणिमहाबोधिसत्त्वकायः संभूय, पुनरपि वज्रसत्वादिमहाबोधिसत्वविग्रहाणि भूत्वा, स्वानि स्वानि चिन्हानि हृदयेषु प्रतिष्ठाप्य, वज्रधातुमहामण्डलसन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्य स्वहृदयसमाधयः समापद्यावस्थिता इति ॥
देलिनेअतिओन् ओf थे मन्दल
अथ वज्रापाणिः पुनरपि सर्वतथागतसमाधिज्ञानाभिज्ञानिष्पादनार्थमिदं वज्रसूक्ष्मज्ञानमण्डलमभाषत ।
अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं वज्रसूक्ष्ममिति स्मृतं
महामण्डलयोगेन महासत्वान्निवेशयेत् ।
वज्रमध्ये लिखेद्बुद्धं बुद्धमण्डलकेष्वपि
महासत्वाः समालेख्याः स्वमुद्राहृदयन्तथा ।
समाधितो निषण्णास्तु वज्रबन्धकरद्वया
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0