सर्वतथागततत्त्वसंग्रह · अध्याय 27
इति ॥
मुद्र
अथात्र वज्रसूक्ष्मधर्ममण्डल आकर्षणादिविधिविस्तरो, महामण्डलयोगेन प्रवेशादिविधिविस्तरं ज्ञानचिन्हं पाणिभ्यां दत्वा, स्वचित्तपरिकर्ममहामुद्राज्ञानं शिक्षयेत् ।
जिव्हां तालुगतां कृत्वा नासिकाग्रं तु चिन्तयेत् ।
सूक्ष्मवज्रसुखस्पर्शाद् भवेच्चितं समाहितं
सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा ।
स्फरयेत् तन्निमित्तन्तु तच्चित्तं सर्वतः स्फरेत्
यथेच्छास्फरणाच्चित्तं त्रैधातुकमपि स्फरेत् ।
पुनस्तु संहरेत् तत् तु यावन्नासाग्रमागतं
ततः प्रभृति यत्किञ्चद् भावयेत् सुसमाहितः ।
सर्वं चैतद् दृढीकुर्यात् समाधिज्ञानकल्पितं
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0