ग्रंथ पाठ
सर्वतथागततत्त्वसंग्रह · अध्याय 25
25.1
अथासां साधनं वक्ष्ये समयस्त्वम् इति ब्रूवन् ।
स्वयं बध्वा तु सिध्यन्ते कामरागसुखात्मनः
25.2
आसां त्वधिकमेकं तु सर्वकालं न बन्धयेत् ।
गुह्ये वार्थमहत्कार्ये प्रयुञ्जीत् विचक्षणः
25.3
यसर्वात्मसित्थात ह्येता दृढभार्याः स्वयंभुवां ।
साधकेषु दृढं रक्ता मा त्यजेयुः पतिन्निजम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0