सर्वतथागततत्त्वसंग्रह · अध्याय 23
अथासां वज्रगुह्यज्ञानमुद्राणां हृदयानि भवन्ति ।
वज्रगुह्यसमय अः ॥
वज्रगुह्यसमय होः ॥
वज्रगुह्यसमय हुं ॥
वज्रगुह्यसमय हं ॥
ततो वज्रगुह्यमुद्राबन्धं शिक्षयेत् ।
वज्राञ्जलिसमुद्भूता महागुह्याः प्रकीर्तिताः ।
महामुद्राः समासेन तासां बन्धः प्रवक्ष्यते
अङ्गुष्ठद्वयपर्यङ्का कुञ्चिताग्राग्रविग्रहा ।
सममध्योत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता
सा एव मध्यवज्रा तु मध्याभ्यां तु मणीकृता ।
मध्यानामान्त्यपद्मा च प्रसारितकराङ्गुली
अग्र्या वज्रा दिवज्राग्री साङ्गुष्ठद्वयगूहिता ।
साधुकाराग्र्यरत्ना च स रत्नाग्राकरोज्वला
समानामान्त्यरत्ना च सा एव परिवर्तिता ।
सुप्रसारितसर्वाग्रा समाङ्गुष्ठान्तरस्थिता
प्रसारिताङ्गुलीमण्डासा एव तु मुखोद्धृता ।
अङ्गुष्ठवज्रसंच्छन्ना समाग्र्याभ्यन्तरस्थिता
द्वयङ्गुष्ठविकचा सा तु ततो ऽभ्यन्तरवज्रिणी ।
वज्रगुह्याः पुनश्चैता वज्रबन्धसमुद्भवाः
धर्मगुह्याः पुनश्चिन्हैः संपुटान्तरभावितैः ।
कर्मगुह्यान्तरस्थितैस्तु चिन्हैः कर्मप्रदर्शनम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0