भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 22

22.1

तत्रैतानि हृदयानि भवन्ति ।
वज्रपाणि वशमानय सर्वबुद्धान् होः ॥
वज्रगर्भ वज्रपाणिं शीघ्रमाकर्षय हूं ज्जः ॥
वज्रनेत्र सर्वधर्मान् मारय हूं फट् ॥
वज्रविश्व रक्ष सर्ववज्रान् हं ॥
ततो वज्रगुह्यमुद्राज्ञानं शिक्षयेत् ।
सत्ववज्रां समाधाय हृदये स्वयमात्मनः ।
वज्रदृष्ट्या निरीक्षन् वै सर्वमावेशयेज्जगत्

22.2

रत्नवज्रां समाधाय हृदये स्वयमात्मनः ।
दीप्तदृष्ट्या निरीक्षन् वै सर्वमानयते वशं

22.3

धर्मवज्रां समाधाय हृदये स्वयमात्मनः ।
क्रोधदृष्ट्या निरीक्षन् वै जगत्सर्वं स मारयेत्

22.4

कर्मवज्रां समाधाय हृदये स्वयमात्मनः ।
मैत्रीदृष्ट्या निरीक्षन् वै रक्षेत्सर्वमिदं जगद् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc