सर्वतथागततत्त्वसंग्रह · अध्याय 21
तत्रैतानि हृदयानि भवन्ति ।
वज्र होः ॥
वज्र ज्जः ॥
वज्र हुं ॥
वज्र हं ॥
ततो वज्रगुह्यचित्तमुद्राज्ञानं शिक्षयेत् ।
सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रपाणिं स्वमात्मानं सर्वबुद्धां वशन्नयेत्
सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रगर्भं स्वमात्मानमाकर्षयेद्वज्रपाणिनं
सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रनेत्रं स्वमात्मानं सर्वधर्मां स मारयेत्
सर्वाकारवरोपेतं भावयन् स्वयमात्मना ।
वज्रविश्वं स्वमात्मानं सर्ववज्रं स रक्षति ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0