सर्वतथागततत्त्वसंग्रह · अध्याय 2
भगवान् महाबोधिचित्तः समन्तभद्रो महाबोधिसत्त्वः सर्वतथागतहृदयेषु विजहार । अथ सर्वतथागतैरिदं बुद्धक्षेत्रं तद्यथा तिलबिम्बमिव परिपूर्णम ॥
अथ खलु सर्वतथागता महासमाजमापद्य, येन सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्त्वः बोधिमण्डनिषण्णस्तेनोपजग्मुः । उपेत्य बोधिसत्त्वस्य सांभोगिकैः कायैर्दर्शनन्दत्वैवमाहुः- "कथं कुलपुत्रानुत्तरां सम्यक्सम्बोधिम् अभिसंभोत्स्यसे, यस्त्वं सर्वतथागततत्त्वानभिज्ञतया सर्वदुःकराण्युत्सहसी-?"ति ।
अथ सर्वार्थसिद्धिर्बोधिसत्त्वो महासत्वस्सर्वतथागतचोदितःसमानस्तत आस्फानसमाधितो व्युत्थाय, सर्वतथागतान् प्रणिपत्याहू यैवमाह- "भगवन्तस्तथागता आज्ञापयत कथं प्रतिपद्यामि कीदृशं तत् तत्त्वम्" इति । एवमुक्ते सर्वतथागतास्तं बोधिसत्त्वमेककण्ठेनैवमाहुः- "प्रतिपद्यस्व कुलपुत्र स्वचित्तप्रत्यवेक्षणसमाधानेन प्रकृतिसिद्धेन रुचिजप्तेन मन्त्रेण" इति ओं चित्तप्रतिवेधं करोमि ।
अथ बोधिसत्त्वः सर्वतथागतानेवमाह- "आज्ञातं मे भगवन्तस्तथागताः स्वहृदि चन्द्रमण्डलाकारं पश्यामि" । सर्वतथागताः प्रोचुः- "प्रकृतिप्रभास्वरमिदं कुलपुत्र चित्तं, तद्यथा परिकर्ष्यते तत् तथैव भवति । तद्यथापि नाम श्वेतवस्त्रे रागरञ्जनम्" इति ।
अथ सर्वतथागताः प्रकृतिप्रभास्वरचित्तज्ञानस्य स्फीतीकरणहेतोः पुनरपि तस्मै बोधिसत्त्वाय ओं बोधिचित्तमुत्पादयामि इत्यनेन प्रकृतिसिद्धेन मन्त्रेण बोधिचित्तमुत्पादितवन्तः ।
अथ बोधिसत्त्वः पुनरपि सर्वतथागताज्ञया बोधिचित्तमुत्पाद्यैवमाह- "यत् तच्चन्द्रमण्डलाकारं तच्चन्द्रमण्डलमेव पश्यामि" । सर्वतथागता आहुः- "सर्वतथागतहृदयन्ते समन्तभद्रश्चित्तोत्पादः सामीचीभूतः, तत्साधु प्रतिपद्यताम्, सर्वतथागतसमन्तभद्रचित्तोत्पादस्य दृढीकरणहेतोः स्वहृदि चन्द्रमण्डले वज्रबिम्बं चिन्तयानेन मन्त्रेण ओं तिष्ठ वज्र ।
बोधिसत्त्व आह- "पश्यामि भगवन्तस्तथागताश्चन्द्रमण्डले वज्रम्" । सर्वतथागता आहुः- "दृढीकुर्विदं सर्वतथागतसमन्तभद्रचित्तवज्रमनेन मन्त्रेण ओं वज्रात्मको ऽहम् ॥
अथ यावन्तः सर्वाकाशधातुसमवसरणाः सर्वतथागतकायवाक्चित्तवज्रधातवः, ते सर्वे सर्वतथागताधिष्ठानेन तस्मिन् सत्त्ववज्रे प्रविष्टाः । ततः सर्वतथागतैः स भगवान् सर्वार्थसिद्धिर्महाबोधिसत्त्वो वज्रधातुर्वज्रधातुरिति वज्रनामाभिषेकेणाभिषिक्तः ।
अथ वज्रधातुर्महाबोधिसत्त्वस्तान् सर्वतथागतानेवमाह "पश्यामि भगवन्तस्तथागताः सर्वतथागतकायमात्मानम्" । सर्वतथागताः प्राहुः- "तेन हि महासत्त्व सत्त्ववज्रं सर्वाकारवरोपेतं बुद्धबिम्बमात्मानं भावयानेन प्रकृतिसिद्धेन मन्त्रेण रुचितः परिजप्य ओं यथा सर्वतथागतास्तथाहम्" ॥
अथैवमुक्ते वज्रधातुर्महाबोधिसत्त्वस्तथागतमात्मानमभिसम्बुध्य, तान् सर्वतथागतान् प्रणिपत्याहू यैवमाह "अधितिष्ठत मां भगवन्तस्तथागता इमामभिसंबोधिं दृढीकुरुत चेति" । अथैवमुक्ते सर्वतथागता वज्रधातोस्तथागतस्य तस्मिन् सत्त्ववज्रे प्रविष्टा इति ॥
अथ भगवान् वज्रधातुस्तथागतस्तस्मिन् एव क्षणे सर्वतथागतसमताज्ञानाभिसंबुद्ध सर्वतथागतवज्रसमताज्ञानमुद्रागुह्यसमयप्रविष्टः सर्वतथागतधर्मसमताज्ञानाधिगमस्वभावशुद्धः सर्वतथागतसर्वसमताप्रकृतिप्रभास्वरज्ञानाकरभूतस्तथागतो ऽर्हान् सम्यक्संबुद्धः संवृत्त इति ॥
अथ सर्वतथागताः पुनरपि ततः सर्वतथागतसत्त्ववज्रान् निःसृत्याकाशगर्भमहामणिरत्नाभिषेकेणाभिषिच्यावलोकितेश्वरधर्मज्ञानमुत्पाद्य सर्वतथागतविश्वकर्मतायां प्रतिष्ठाप्य येन सुमेरुगिरिमूर्धा येन च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रान्ताः, उपसंक्रम्य वज्रधातुन्तथागतं सर्वतथागतत्वे ऽधिष्ठ्य, सर्वतथागतसिंहासने सर्वतोमुखं प्रतिष्ठापयामासुरिति ॥
एमनतिओन् ओf थे 37 देइतिएस् fरोम् समधि
अथ खलु अक्षोभ्यस्तथागतो रत्नसंभवश्च तथागतो लोकेश्वरराजश्च तथागतो अमोघसिद्धिश्च तथागतः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, भगवतः शाक्यमुनेस्तथागतस्य सर्वसमतासुप्रतिवेधत्वात् सर्वदिक्समतामभ्यालम्ब्य, चतसृषु दिक्षु निषण्णाः ॥
इ.1.6 वज्रसत्त्व
अथ भगवान् वैरोचनस्तथागतः अचिराभिसंबुद्धः सर्वतथागतसमन्तभद्रहृदयसर्वतथागताकाशसंभवमहामणिरत्नाभिषेकाभिषिक्तः सर्वतथागतावलोकितेश्वरधर्मज्ञानपरमपारमिताप्राप्तः सर्वतथागतविश्वकर्मतामोघाप्रतिहतशासनः परिपूर्णकार्यः परिपूर्णमनोरथः सर्वतथागतत्वं स्वयमात्मन्यधिष्ठाय, सर्वतथागतसमन्तभद्रमहाबोधिसत्त्वसमयसम्भवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतमहायानाभिसमयं नाम सर्वतथागतहृदयं स्वहृदयान निश्चचार वज्रसत्त्व ॥
अथास्मिन् विनिःसृतमात्रे सर्वथागतहृदयेभ्यः स एव भगवां समन्तभद्रश्चन्द्रमण्डलानि भूत्वा विनिःसृत्य, सर्वसत्त्वानां महाबोधिचित्तानि संशोध्य, सर्वतथागतानां सर्वपार्श्वेष्ववस्थिताः । अथ तेभ्यश्चन्द्रमण्डलेभ्यः सर्वतथागतज्ञानवज्राणि विनिःसृत्य, भगवतो वैरोचनस्य तथागतस्य हृदये प्रविष्टानि । समन्तभद्रत्वाच्च सुदृढत्वाच्च वज्रसत्त्वसमाधेः सर्वतथागताधिष्ठानेन चैकधनः सकलाकाशधातुसमवसरणप्रमाणो रश्मिमालो पञ्चमूर्धा सर्वतथागतकायवाक्चित्तवज्रमयोवज्रविग्रहः प्रादुर्भूय, सर्वथागतहृदयान् निष्क्रम्य पाणौ प्रतिष्ठितः । अथ ततो वज्राद् वज्राकारा रश्मयो विचित्रवर्णरूपाः सर्वलोकधात्वाभासनस्फरणा विनिश्चरिताः । तेभ्यश्च वज्ररश्मिमुखेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सकलधर्मधातुसमवसरणेषु सर्वाकाशधातुपर्यवसानेषु सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वतथागतसमताज्ञानाभिज्ञास्वभिसंबोधात्, सर्वतथागतमहाबोधिचित्तोत्पादनसमन्तभद्रविविधचर्यानिष्पादनसर्व- तथागतकुलारागणमहाबोधिमण्डोपसंक्रमणसर्वमारधर्षणसर्व- तथागतसमतामहाबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं यावद् अशेषानवशेषसत्त्वधातुपरित्राणसर्वहितसुखसर्वतथागतज्ञानाभिज्ञोत्तमसिद्धिनिष्पादनादीनि सर्वतथागतविकुर्वितानि सन्दर्श्य, समन्तभद्रत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः समन्तभद्रमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो समन्तभद्रो ऽहं दृढसत्त्वः स्वयंभुवां ।
यद् दृढत्वादकायो ऽपि सत्त्वकायत्वमागतः ॥
अथ समन्तभद्रमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वाज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतज्ञानसमयवज्रं नाम समाधिं समापद्य, सर्वतथागतशीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनधर्मचक्रप्रवर्तनसत्त्वार्थमहोपायबलवीर्यमहाज्ञानसमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वाधिपत्यसर्वसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतसमताज्ञानाभिज्ञानुत्तरमहायानाभिसमयोत्तमसिद्ध्यवाप्तिफलहेतोस्तत्सर्वतथागतसिद्धिवज्रं तस्मै समन्तभद्राय महाबोधिसत्त्वाय सर्वतथागतचक्रवर्तित्वे सर्वबुद्धकायरत्नमुकुटपट्टाभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रपाणिर्वज्रपाणिरिति वज्रनामाभिषेकेणाभिषिक्तः ।
अथ वज्रपाणिर्बोधिसत्त्वो महासत्त्वो वामवज्रगर्वोल्लालनतया तदवज्रं स्वहृद्युत्कर्षणयोगेन धारयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां सिद्धिवज्रमनुत्तरं ।
अहं मम करे दत्तं वज्रं वज्रे प्रतिष्ठितम् ॥ इति ॥
इ.1.7 वज्ररज
अथ भगवान् पुनरप्यमोघराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागताकर्षणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराज ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणि सर्वतथागतमहाङ्कुशानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्राङ्कु शमहाविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्राङ्कु शमहाविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतकर्षणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, स्वमोघराजत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अमोघराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो ह्यमोघराजाहं वज्रसंभवमङ्कु शः ।
यत्सर्वव्यापिनो बुद्धाः समाकृष्यन्ति सिद्धयः ॥ इति ॥
अथ सो ऽमोघराजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागताकर्षणसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागताकर्षणसमयमशेषानवशेषसत्त्वधातुसर्वाकर्षणसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसमाजाधिष्ठानोत्तमसिद्ध्यर्थं तद्वज्राङ्कुशं तस्मै अमोघराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्राकर्षो वज्राकर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्राकर्षो बोधिसत्त्वस्तेन वज्राङ्कुशेन सर्वतथागतानाकर्षयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां वज्रज्ञानमनुत्तरं ।
यत्सर्वबुद्धार्थसिद्ध्यर्थ समाकर्षणमुत्तमम ॥ इति ॥
इ.1.8 वज्ररग
अथ भगवान् पुनरपि मारमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतानुरागणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रराग ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतकुसुमायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रवाणविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रवाणविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतानुरागणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमारणत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मारमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो स्वभावशुद्धो ऽहमनुरागः स्वयंभुवां ।
यच्छुद्ध्यर्थं विरक्तानां रागेण विनयन्ति हि ॥
अथ स मारमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतानुरागणाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतमारणवज्रसमयमशेषानवशेषत्वधात्वनुरागणर्सासुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमारकर्मोत्तमसिद्ध्यवाप्तिफलहेतोस्तद्वज्रवाणं तस्मै माराय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रधनुर्वज्रधनुरिति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रधनुर्बोधिसत्त्वो महासत्त्वस्तेन वज्रवाणेन सर्वतथागतान् मारयन्निदमुदानमुदानयामास ।
इदन्तत्सर्वबुद्धानां रागज्ञानमनाविलं ।
हत्वा विरागं रागेण सर्वसौख्यं ददन्ति हि ॥
इ.1.9 वज्रसधु
अथ भगवान् पुनरपि प्रामोद्यराजमहाबोधिसत्त्वसमयसंभवसत्त्वाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रमोदसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसाधु ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः साधुकाराणि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो भूत्वा, वज्रतुष्टिविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रतुष्टिविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतसाधुकारादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुप्रामोद्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच् चैकघनः प्रामोद्यराजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो हि साधुकारो ऽहं सर्वः सर्वविदां वरः ।
यद् विकल्पप्रहीणानां तुष्टिं जनयति ध्रुवं ॥
अथ स प्रामोद्यराजमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतसंतोषणवज्रन्नाम समाधिं संपाद्य, सर्वतथागतानुत्तरप्रामोद्यज्ञानसमयशेषानवशेषसत्त्वधातुसर्वसत्त्वसन्तोषणमहासुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतानुत्तरहर्षरसोत्तमसिद्धिप्राप्तिफलहेतोस्तद्वज्रतुष्टिं तस्मै प्रामोद्यराजाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रहर्षो वज्रहर्ष इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रहर्षो बोधिसत्त्वस्तेन वज्रतुष्टिना सर्वतथागतान् साधुकारैः प्रहर्षयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां साधुकारप्रवर्तकं ।
सर्वतुष्टिकरं वज्रं दिव्यं प्रामोद्यवर्धनम् ॥ इति ॥
महाबोधिचित्तं, सर्वतथागतकर्षणसमयः, सर्वतथागतानुरागणज्ञानं, महातुष्टिरिति सर्वतथागतमहासमयसत्त्वाः ॥
इ.1.10 वज्ररत्न
अथ भगवान् पुनरप्याकाशगर्भमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताभिषेकसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररत्नः ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वाकाशसमताज्ञानसुप्रतिवेधत्वाद्, वज्रसत्त्वसमाधेः स एव भगवान् वज्रधरः सर्वाकाशरसमयो भूत्वा विनिःसृतास्, तैः सर्वैः सर्वाकाशरश्मिभिः सर्वलोकधातवो ऽवभासिताः, सर्वाकाशधातुसमाः संवृता अभूवन् । अथ सर्वतथागताधिष्ठानेन सर्वो ऽसाकाशधातुर्भगवतो वैरोचनस्य हृदये प्रविष्टाः । सुपरिभावितत्वाच्च वज्रसत्त्वसमाधेः सर्वाकाशधातुगर्भमयः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद् वज्ररत्नविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः प्रादुर्भूय, सर्वतथागताभिषेकादीनि सर्वतथागतर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सर्वाकाशधातुगर्भसुसंभवत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः आकाशगर्भमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो हि स्वभिषेको ऽहं वज्ररत्नमनुत्तरं ।
यन्निःसंगा अपि जिनास्त्रिधातुपतयः स्मृताः ॥
अथ स आकाशगर्भमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतमणिरत्नवज्रन्नाम समाधिं समापद्य, सर्वतथागताभिप्रायपरिपूर्णसमयमशेषानवशेषसत्त्वधातुसर्वार्थपरिप्राप्तिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतार्थसंपदुत्तमसिद्धिप्राप्त्यै तं वज्रमणिं तस्मै आकाशगर्भाय महाबोधिसत्त्वाय वज्ररत्नचक्रवर्तित्वे वज्ररत्नाङ्कुराभिषेकेणाभिषिच्य पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रगर्भो वज्रगर्भ इति वज्रनामाभिषेकेणाभिषिक्तः ।
अथ वज्रगर्भो महाबोधिसत्त्वस्तं वज्रमणिं स्वाभिषेकस्थाने स्थापयन्निदमुदानमुदानयामास ।
इदं तत् सर्वबुद्धानां सत्त्वधात्वभिषेचनं ।
अहम्मम करे दत्तं रत्ने रत्नन्नियोजितं ॥
इ.1.11 वज्रतेज
अथ भगवान् पुनरपि महातेजमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्यदं सर्वतथागतरश्मिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतेज ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः महासूर्यमण्डलानि भूत्वा, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रसूर्यविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रसूर्यमण्डलात्सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिःसृत्य, सर्वतथागतरश्मिप्रमुञ्चनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, सुमहातेजस्त्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो महातेजमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो ह्यनुपमं तेजः सत्त्वधात्ववभासनं ।
यच्छोधयति शुद्धानां बुद्धानामपि तायिनां ।
अथ स विमलतेजमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतप्रभामण्डलाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतरश्मिसमयमशेषानवशेषसत्त्वधात्वनुपमतेजःसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतस्वयंप्रभावाप्त्युत्तमसिद्धये तद्वज्रसूर्यं तस्मै महातेजसे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रभो वज्रप्रभ इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रप्रभो महाबोधिसत्त्वस्तेन वज्रसूर्येण सर्वतथागतानवभासयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानामज्ञानध्वान्तनाशनं । परमाणुरजःसंख्यसूर्याधिकतरप्रभम् ॥ इति ॥
इ.1.12 वज्रकेतु
अथ भगवान् पुनरपि रत्नकेतुमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागताशापरिपूरणसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकेतु ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो विचित्रवर्णरूपालङ्कारसंस्थानाः पताका भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रध्वजविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रध्वजविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरत्नध्वजोच्छ्रेपणादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, महारत्नकेतुत्वाद् वज्रसत्त्वसमाधेः सदृढत्वाच्चैकघनो रत्नकेतुमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो ह्यसदृशः केतुरहं सर्वार्थसिद्धीनां ।
यत्सर्वाशापरिपूर्णानां सर्वार्थप्रतिपूरणं ॥ इति ॥
अथ स रत्नकेतुर्महाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतोच्छ्रयाधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागतचिन्ताराजमणिध्वजोच्छ्रेपणसमयमशेषानवशेषसत्त्वधातुसर्वाशापरिपूरिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतमहार्थोत्तमसिद्धिप्राप्तिफलहेतोः तद्वज्रध्वजं तस्मै रत्नकेतवे महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रयष्टिर्वज्रयष्टिरिति वज्रनामभिषेकेणाभिषिक्तः ।
अथ वज्रयष्टिर्बोधिसत्त्वो महासत्त्वस्तेन वज्रध्वजेन सर्वतथागतान् दानपारमितायान्नियोजयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां सर्वाशापपरिपूरणं ।
चिन्तामणिध्वजन्नाम दानपारमितानयम् ॥ इति ॥
इ.1.13 वज्रहस
अथ भगवान् पुनरपि नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वसमयसंभवरत्नाधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतप्रीतिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहास ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतस्मितानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रस्मितविग्रहः प्रादुर्भूय, प्राणौ प्रतिष्ठितः । अथ ततो वज्रस्मितविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहाः सर्वतथागताद्भूतादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, नित्यप्रीतिप्रमुदितेन्द्रियत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो महाहासमहं सर्वाग्र्याणां महाद्भुतं ।
यत्प्रयुञ्जन्ति बुद्धार्थे सदैव सुसमाहिताः ॥
अथ स नित्यप्रीतिप्रमुदितेन्द्रियमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागताद्भुताधिष्ठानवज्रन्नाम समाधिं समापद्य, सर्वतथागताद्भुतोत्पादसमयमशेषानवशेषसत्त्वधातुसर्वेन्द्रियानुत्तरसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतेन्द्रियपरिशोधनज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रस्मितं तस्मै नित्यप्रीतिप्रमुदितेन्द्रियाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रप्रीतिर्वज्रप्रीतिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रप्रीतिर्बोधिसत्त्वो महासत्त्वः तेन वज्रस्मितेन सर्वतथागतान् प्रहर्षयन्निदमुदानमुदानयामास ।
इदन्तत्सर्वबुद्धानामद्भुतोत्पाददर्शकं ।
महाहर्षकरं ज्ञानमज्ञातं परशासिभिर् ॥ इति ॥
महाभिषेकः, व्यामप्रभामण्डलं, महासत्त्वार्थो, महाहर्षश्चेति । सर्वतथागतमहाभिषेकसत्त्वाः ॥
इ.1.14 वज्रधर्म
अथ भगवान् पुनरप्यवलोकितेश्वरमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागधर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रधर्म ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः स्वभावशुद्धधर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः सद्धर्मरश्मयो भूत्वा विनिश्चरितः, तैः सद्धर्मरश्मिभिः सर्वलोकधातवो ऽवभासिताः, धर्मधातुमयाः संवृता अभूवन् । स च सकलो धर्मधातुर्भगवतो वरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणो महापद्मविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ तस्माद् वज्रपद्मविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतसमाधिज्ञानाभिज्ञादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, स्ववलोकनैस्वर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवलोकितेश्वरमहाबोधिसत्त्वकायःसंभूय, भगवतो वैरोचनस्य तथागतस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो हि परमार्थो ऽहमादिशुद्धः स्वयंभुवान् ।
यत्कोलोपमधर्माणां विशुद्धिरुपलभ्यते ॥
अथ सो ऽवलोकितेश्वरमहाबोधिसत्त्वकायो भगवतो वैरोचनस्य हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतसमाधिज्ञानसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतविशोधनसमयमशेषानवशेषसत्त्वात्मपरिशुद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतधर्मज्ञानाभिज्ञावाप्तिफलहेतोस्तद्वज्रपद्मं तस्म अवलोकितेश्वराय महाबोधिसत्त्वाय सद्धर्मचक्रवर्तित्वे सर्वतथागतधर्मकायाभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतर्वज्रनेत्रो वज्रनेत्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रनेत्रो बोधिसत्त्वो महासत्त्वः तद्वज्रपद्मं पत्रविकासनतया रागविशुद्धिनिर्लेपस्वभावावलोकनतथावलोकयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां रागतत्त्वावबोधनं ।
अहं मम करे दत्तं धर्म धर्मे प्रतिष्ठितम् ॥ इति ॥
इ.1.15 वज्रतिक्स्न
अथ भगवान् पुनरपि मञ्जुश्रीमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतमहाप्रज्ञाज्ञानसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रतीक्ष्ण ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः प्रज्ञाशस्त्राणि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रकोशविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकोशविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतप्रज्ञाज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सुमञ्जुश्रियत्वात् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो मञ्जुश्रीमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥
अहो हि सर्वबुद्धानां मञ्जुघोषमहं स्मृतः ।
यत्प्रज्ञाया अरूपिण्या घोषत्वमुपलभ्यते ॥
अथ स मञ्जुश्रीमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतप्रज्ञाज्ञानवज्रं नाम समाधिं समापद्य, सर्वतथागतक्लेशच्छेदनसमयमशेषानवशेषसत्त्वधातुसर्वदुःखच्छेदनसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतघोषानुगप्रज्ञापारिर्पूर्युत्तमसिद्ध्यर्थं तस्मै मञ्जुश्रिये महाबोधिसत्त्वाय तद्वज्रकोशं तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रबुद्धिर्वज्रबुद्धिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥ अथ स वज्रबुद्धिर्बोधिसत्त्वो महासत्त्वः तेन वज्रकोशेन सर्वतथागतान् प्रहरन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां प्रज्ञापारमितानयं ।
छेत्तारं सर्वशत्रूणां सर्वपापहरं परम् ॥ इति ॥
इ.1.16 वज्रहेतु
अथ भगवान् पुनरपि सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतचक्रसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रहेतु ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो वज्रधातुमहामण्डलादीनि सर्वतथागतमण्डलानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रचक्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रचक्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमाः तथागतविग्रहा विनिश्चरित्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनादीनि सर्वबुद्धर्द्धिविकुर्वितानि सर्वलोकधातुषु कृत्वा, सहचित्तोत्पादधर्मचक्रप्रवर्तनत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो वज्रमयं चक्रमहं वज्राग्रधर्मिणाम् ।
यच्चित्तोत्पादमात्रेण धर्मचक्रं प्रवर्तते ॥
अथ स सहचित्तोत्पादितधर्मचक्रप्रवर्तिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतचक्रवज्रन्नाम समाधिं समापद्य, सर्वतथागतमहामण्डलसमयं शेषानवशेषसत्त्वधातुप्रवेशावैवर्तिकचक्रसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतसद्धर्मचक्रप्रवर्तनोत्तमसिद्धिनिमित्तं तद्वज्रचक्रं तस्मै सहचित्तोत्पादितधर्मचक्रप्रवर्तिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमण्डो वज्रमण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रमण्डो बोधिसत्त्वो सहासत्त्वस्तेन वज्रचक्रेण सर्वतथागतानवैवर्तिकत्वे प्रतिष्ठापयन्निदमुदानमुदानयामास ।
इदं तत् सर्वबुद्धानां सर्वधर्मविशोधकम् ।
अवैवर्तिकचक्रन्तु बोधिमण्डमिति स्मृतम् ॥ इति ॥
इ.1.17 वज्रभस
अथ भगवानवाचमहाबोधिसत्त्वसमयसंभवधर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतजापसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रभाष ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिः सर्वतथागतधर्माक्षराणि भूत्वा विनिः सृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकधनो वज्रजापविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रजापविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतधर्मतादिनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा स्ववाचत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः अवाचमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानयामास ।
अहो स्वयंभुवां गुह्यं सन्धाभाषमहं स्मृतः ।
यद् देशयन्ति सद्धर्मं वाक्प्रपञ्चविवर्जितं ॥
अथ स अवाचमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ।
अथ भगवान् सर्वतथागतगुह्यवाग्वज्रं नाम समाधिं समापद्य, सर्वतथागतवाग्ज्ञानसमयं अशेषानवशेषसत्त्वधातुवाक्सिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवाग्गुह्यताप्राप्त्युत्तमसिद्धये तद्वज्रजापं तस्मै अवाचाय महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रवाचो वज्रवाच इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रवाचो बोधिसत्त्वो महासत्त्वस्तेन वज्रजापेन सर्वतथागतान् संल्लापयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां वज्रजापमुदाहृतं ।
सर्वतथागतानां तु मन्त्राणामाशुसाधनम् ॥ इति ॥
वज्रधर्मताज्ञानं, सर्वतथागतप्रज्ञाज्ञानं, महाचक्रप्रवर्तनज्ञानं, सर्वतथागतवाक्प्रपञ्चविनिवर्तनज्ञानं चेति । सर्वतथागतमहाज्ञानसत्त्वाः ॥
इ.1.18 वज्रकर्म
अथ भगवान् सर्वतथागतविश्वकर्ममहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्य, इदं सर्वतथागतकर्मसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रकर्म ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः सर्वकर्मसमताज्ञानसुप्रतिवेधत्वात् वज्रसत्त्वसमाधेः स एव भगवन् वज्रधरः सर्वतथागतकर्मसमयो भूत्वा विनिःसृतः, तैश्च सर्वतथागतकर्मरश्मिभिः सर्वलोकधातवो भासिताः, सर्वतथागतकर्मधातुमयाः संवृत्ताः, स सकलः सर्वतथागतकर्मधातुर्भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनः सर्वाकाशधातुसमवसरणप्रमाणस्ततः सर्वतथागतकर्मधातुतः कर्मवज्रविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततः कर्मवज्रविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतानन्तकर्मत्वाद्वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो ह्यमोघं बुद्धानां सर्वकर्ममहं बहु ।
यदनाभोगबुद्धार्थं वज्रकर्म प्रवर्तते ॥
अथ स सर्वतथागतविश्वकर्ममहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतामोघवज्रं नाम समाधिं समापद्य, सर्वतथागतपूजाप्रवर्तनाद्यप्रमेयामोघसर्वकर्मविधिविस्तरसमयशेषानवशेषसत्त्वधातुसर्वकर्मसिद्धिसर्वसुखसौमनस्यानुभवनार्थं यावत् सर्वतथागतवज्रकर्मताज्ञानाभिज्ञोत्तमसिद्धिफलहेतोस्तत्कर्मवज्रं तस्मै सर्वतथागतविश्वकर्मणे महाबोधिसत्त्वाय सर्वकर्मचक्रवर्तित्वे सर्वतथागतवज्राभिषेकेणाभिषिच्य, पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रविश्वो वज्रविश्व इति वज्रमहाभिषेकेणाभिषिक्तः ।
अथ वज्रविश्वो बोधिसत्त्वो महासत्वस्तद्वज्रं स्वहृदि स्थाप्य, सर्वतथागतकर्मतायान्नियोजयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां विश्वकर्मकरं परं ।
अहं मम करे दत्तं विश्वे विश्वं नियोजितम् ॥ इति ॥
इ.1.19 वज्ररक्स
अथ भगवान् दुर्योधनवीर्यमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्येदं सर्वतथागतरक्षासमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्ररक्ष ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रपाणिर्दृढकवचानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो महावज्रकवचविग्रहः प्रादुर्भूय, भगवतः पाणौ प्रतिष्ठितः । अथ ततो वज्रकवचविग्रहात्सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, सर्वतथागतरक्षाविधिविस्तरकर्मादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, दुर्योधनवीर्यत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनो दुर्योधनवीर्यमहाबोधिसत्त्वविग्रहः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो वीर्यमयो वर्मः सुदृढो ऽहं दृढात्मनां ।
यद् दृढत्वादकायानां वज्रकायकरं परं ॥
अथ स दुर्योधनवीर्यमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां दक्षिणचन्द्रमण्डलाश्रितो भूत्त्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतदृढवज्रन्नाम समाधिं समापद्य, सर्वतथागतवीर्यपारमितासमयमशेषानवशेषसत्त्वधातुपरित्राणसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतवज्रकायप्राप्त्युत्तमसिद्धिहेतोस्तद्वज्रवर्म तस्मै दुर्योधनवीर्याय महाबोधिसत्त्वाय पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमित्रो वज्रमित्र इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रमित्रो बोधिसत्त्वो महासत्त्वः तेन वज्रवर्मेण सर्वतथागतान् कवचयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां मैत्रीकवचमुत्तमं ।
दृढवीर्यमहारक्षं महामित्रमुदाहृतम ॥ इति ॥
इ.1.20 वज्रयक्स
अथ भगवान् पुनरपि सर्वमारप्रमार्देमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रन्नाम समाधिं समापद्येदं सर्वतथागतोपायसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रयक्ष ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरो महादंष्ट्रायुधानि भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रदंष्ट्राविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रदंष्ट्राविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वतथागतरौद्रविनयादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वमारसुप्रमर्दित्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वमारप्रमर्दिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ॥
अहो महोपायमहं बुद्धानां करुणात्मनां ।
यत्सत्त्वार्थतया शान्ता रौद्रत्वमपि कुरुवते ॥
अथ स सर्वमारप्रमर्दिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां वामचन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतप्रचण्डवज्रन्नाम समाधिं समापद्य, सर्वतथागतदुष्टविनयसमयमशेषानवशेषत्वधात्वभयसर्वसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतमहोपायज्ञानाभिज्ञावाप्त्युत्तमसिद्धिफलहेतोस्तद्वज्रदंष्ट्रायुधं तस्मै सर्वमारप्रमर्दिने महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रचण्डो वज्रचण्ड इति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ वज्रचण्डो बोधिसत्त्वो महासत्त्वस्तद्वज्रदंष्ट्रायुधं स्वमुखे प्रतिष्ठाप्य, सर्वतथागतान् भीषयन्निदमुदानमुदानयामास ।
इदं तत् सर्वबुद्धानां सर्वदुष्टाग्रदामकं ।
वज्रदंष्ट्रायुधं तीक्ष्णमुपायः करूणात्मनाम् ॥ इति ॥
इ.1.21 वज्रसन्धि
अथ भगवान् पुनरपि सर्वतथागतमुष्टिमहाबोधिसत्त्वसमयसंभवकर्माधिष्ठानवज्रं नाम समाधिं समापद्यदं सर्वतथागतकायवाक्चित्तवज्रबन्धसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसन्धि ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्राबन्धा भूत्वा विनिःसृत्य, भगवतो वैरोचनस्य हृदये प्रविष्ट्वैकघनो वज्रबन्धविग्रहः प्रादुर्भूय, पाणौ प्रतिष्ठितः । अथ ततो वज्रबन्धविग्रहात् सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वतथागतमुद्राज्ञानादीनि सर्वबुद्धर्द्धिविकुर्वितानि कृत्वा, सर्वतथागतमहामुष्टिसुबन्धत्वाद् वज्रसत्त्वसमाधेः सुदृढत्वाच्चैकघनः सर्वतथागतमुष्टिमहाबोधिसत्त्वकायः संभूय, भगवतो वैरोचनस्य हृदये स्थित्वेदमुदानमुदानयामास ।
अहो हि सुदृढो बन्धः समयो ऽहं दृढात्मनां ।
यत्सर्वाशाप्रसिद्ध्यर्थं मुक्तानामपि बन्धनं ॥
अथ सर्वतथागतमुष्टिमहाबोधिसत्त्वकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गयामास ॥
अथ भगवान् सर्वतथागतसमयवज्रन्नाम समाधिं समापद्य, सर्वतथागतमुद्राबन्धसमयमशेषानवशेषसत्त्वधातुसर्वतथागतदेवतासान्निध्यकल्पनात् सर्वसिद्धिसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वज्ञानमुद्राधिपत्योत्तमसिद्धिफलहेतोस्तद्वज्रबन्धं तस्मै सर्वतथागतमुष्टये महाबोधिसत्त्वाय तथैव पाणिभ्यामनुप्रादात् । ततः सर्वतथागतैर्वज्रमुष्टिर्वज्रमुष्टिरिति वज्रनामाभिषेकेणाभिषिक्तः ॥
अथ स वज्रमुष्टिर्बोधिसत्त्वो महासत्त्वः तेन वज्रबन्धेन सर्वतथागतान् बन्धयन्निदमुदानमुदानयामास ।
इदं तत्सर्वबुद्धानां मुद्राबन्धं महादृढं ।
यत्सर्वबुद्धाशुसिद्ध्यर्थं समयो दुरतिक्रमः ॥ इति ॥
सर्वतथागतपूजाविधिविस्तरकर्म, महावीर्यदृढकवचः, सर्वतथागतमहोपायः, सर्वमुद्राज्ञानं चेति । सर्वतथागतमहाकर्मसत्त्वाः ॥
इ.1.22 सत्त्ववज्रि
अथ खल्वक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानानि निष्पाद्य, सर्वतथागतज्ञानमुद्रणार्थं वज्रापारमितासमयोभ्दववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतवज्रसमयां नाम सर्वतथागतमुद्रां स्वहृदयान्निश्चचार सत्त्ववज्रि ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्ररश्मयो विनिश्चरिताः ।
तेभ्यश्च वज्ररश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतवज्रपारमिताज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रविग्रहः प्रादुर्भूय, भगवतोवैरोचनस्य पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां सत्त्ववज्रमहं दृढः ।
यद् दृढत्वादकायो ऽपि वज्रकायत्वमागतः ॥ इति ॥
इ.1.23 रत्नवज्रि
अथ भगवान् रत्नसंभवस्तथागतः भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं रत्नपारमितासमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां वज्ररत्नसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार रत्नवज्रि ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो रत्नरश्मयो विनिश्चरिताः । तेभ्यो रत्नरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्ररत्नविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य दक्षिणपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां रत्नवज्रमहं स्मृतं ।
यन्मुद्राणां हि सर्वासामभिषेकनयं दृढम् ॥ इति ॥
इ.1.24 धरमवज्रि
अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं धर्मपारमितासमयोद्भववज्राधिष्ठानं नाम समाधिं समापद्येमां धर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार धर्म वज्रि ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः पद्मरश्मयो विनिश्चरिताः । तेभ्यः पद्मरश्मिभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यामुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणो महावज्रपद्मविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य पृष्ठतश्चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां धर्मवज्रं अहं शुचि ।
यत्स्वभावविशुद्ध्या वै रागो ऽपि हि सुनिर्मलः ॥ इति ॥
इ.1.25 कर्मवजिरि
अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य सर्वतथागतज्ञानमुद्रणार्थं कर्मपारमितासंभववज्राधिष्ठानं नाम समाधिं समापद्येमां सर्वतथागतकर्मसमयां नाम स्वमुद्रां स्वहृदयान्निश्चचार कर्मवज्रि ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वकर्मश्मयो विनिश्चरिताः । तेभ्यश्च सर्वतथागतकर्मरश्मिमभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, सर्वतथागतज्ञानान्यमुद्र्य, पुनरप्येकघनः सर्वलोकधातुसमवसरणप्रमाणः सर्वतोमुखो महाकर्मवज्रविग्रहः प्रादुर्भूय, भगवतो वैरोचनस्य वामपार्श्वे चन्द्रमण्डलाश्रितो भूत्वा, इदमुदानमुदानयामास ॥
अहो हि सर्वबुद्धानां कर्मवज्रमहं बहु ।
यदेकः सन्नशेषस्य सत्त्वधातोः सुकर्मकृद् ॥ इति ॥
सर्वतथागतज्ञानसमया, महाभिषेका, वज्रधर्मता, सर्वपूजा चेति । सर्वतथागतपारमिताः ॥
इ.1.26 वज्रलस्य
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतरतिपूजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रलास्ये ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो वज्रमुद्रा विनिःसृताः । तेभ्यो वज्रमुद्रामुखभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघना महादेवी वज्रसत्त्वसदृशात्मभावा विचित्रवर्णरूपलिङ्गेर्यापथा सर्वालङ्कारविभूषिता सर्वतथागतकुलसंग्रहभूता वज्रसत्त्वदयिता संभूय, भगवतो ऽक्षोभ्यमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास ।
अहो न सदृशी मे ऽस्ति पूजा ह्यन्या स्वयंभुवां ।
यत्कामरतिपूजाभिः सर्वपूजा प्रवर्तते ॥ इति ॥
इ.1.27 वज्रमल
अथ भगवान् पुनरपि सर्वतथागतरत्नमालाभिषेकसमयोद्भववज्रन्नाम समाधिं समापद्य मां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रमाले ।
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यो महारत्नमुद्रा विनिःसृताः । ताभ्यो महारत्नमुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, एकघनां वज्रमालां महादेवीं तथैव संभूय, भगवतो रत्नसंभवमण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।
अहो ह्यसदृशाहं वै रत्नपूजेति कीर्तिता ।
यत्त्रैधातुकराज्याग्र्यं शासयन्ति प्रपूजिता ॥ इति ॥
इ.1.28 वज्रगित
अथ भगवान् पुनरपि सर्वतथागतसंगीतिसमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रगीते ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदये ऽभ्यः सर्वतथागतधर्ममुद्रा विनिश्चरिताः । ताभ्यश्च सर्वतथागतधर्ममुद्राभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रगीतां महादेवीं संभूय, भगवतो लोकेश्वरराजमण्डलवामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।
अहो हि संगीतिमयी पूजाहं सर्वदर्शिनां ।
यत् तोषयन्ति पूजाभिः प्रतिश्रुत्कोपमेष्वपि ॥ इति ॥
इ.1.29 वज्रन्र्त्य
अथ भगवान् पुनरपि सर्वतथागतनृत्यपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतकुलमहादेवीं स्वहृदयान्निश्चचार वज्रनृत्ये ।
अथास्मिन विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः सर्वतथागतनृत्यपूजाविधिविस्तरा भूत्वा विनिःसृताः । तेभ्यश्च सर्वतथागतसर्वनृत्तपूजाविधिविस्तरेभ्यः स एव भगवान् वज्रधरः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा भूत्वा, पुनरप्येकघनां वज्रनृत्तमहादेवीं संभूय, भगवतो अमोघसिद्धेस्तथागतस्य मण्डलवामपार्श्वे पूर्णचन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।
अहो ह्युदारपूजाहं सर्वपूजार्थकरिणां ।
यद्वज्रनृत्तविधिना बुद्धपूजा प्रकल्प्यते ॥ इति ॥
सर्वतथागतानुत्तरसुखसौमनस्यसमया, सर्वतथागतमाला, सर्वतथागतगाथा, सर्वतथागतानुत्तरपूजाकर्मकरी चेति । सर्वतथागतगुह्यपूजाः ॥
इ.1.30 वज्रधुप
अथ पुनरपि भगवान् अक्षोभ्यस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतप्रल्हादनसमयोद्भववज्रन्नाम समाधिं समापद्येमां सर्वतथागतगणिकां स्वहृदयान्निश्चचार वज्रधूपे ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः अनेकविधा धूपपूजामेघव्यूहाः सर्ववज्रधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च धूपपूजामेघसमुद्रेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रधूपदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कोणे वामपार्श्वे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयति स्म ।
अहो ह्यं महापूजा प्रल्हादनवती शुभा ।
यत्सत्त्वावेशयोगाद्धि क्षिप्रं बोधिरवाप्यते ॥ इति ॥
इ.1.31 वज्रपुस्प
अथ भगवान् रत्नसंभवस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ रत्नाभरणपूजासमयसंभववज्रं नाम समाधिं समापद्येमां सर्वतथागतप्रतीहारीं स्वहृदयान्निश्चचार वज्रपुष्पे ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वपुष्पपूजाव्यूहाः सर्वाकाशधातुस्फरणा भूत्वा विनिःसृतास्तेभ्यश्च सर्वपुष्पपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपुष्पदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयामास ।
अहो हि पुष्पपूजाहं सर्वालङ्कारकारिका ।
यत्तथागतरत्नत्वं पूज्य क्षिप्रमवाप्यते ॥ इति ॥
इ.1.32 वज्रलोक
अथ भगवान् लोकेश्वरराजस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थ सर्वतथागतालोकपूजासमयोद्भववज्रं नाम समाधिं समापद्येमां सर्वतथागतदूतीं स्वहृदयान्निश्चचार वज्रालोके ।
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वालोकपूजाव्यूहाः सकलधर्मधातुस्फरणा भूत्वा विनिश्चरिताः । तेभ्यश्च सर्वालोकपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रालोकदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भूत्वा, इदमुदानमुदानयामास ।
अहो ह्यहं महोदारा पूजा दीपमयी शुभा ।
यदालोकवती क्षिप्रं सर्वबुद्धदृशो लभेद् ॥ इति ॥
इ.1.33 वज्रगन्ध
अथ भगवानमोघसिद्धिस्तथागतो भगवतो वैरोचनस्य तथागतस्य पूजाप्रतिपूजार्थं सर्वतथागतगन्धपजासमयसंभववज्रन्नाम समाधिं समापद्येमां सर्वतथागतचेटीं स्वहृदयान्निश्चचार वज्रगन्धे ॥
अथास्यां विनिःसृतमात्रायां सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वगन्धपूजाव्यूहाः सर्वलोकधातुस्फरणा भूत्वा विनिःसृताः । तेभ्यश्च गन्धपूजाव्यूहेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य पुनरप्येकघनो वज्रगन्धदेवताकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वामकोणे चन्द्रमण्डलाश्रिता भत्वेदमुदानमुदानयामास ।
अहो गन्धमयी पूजा दिव्याहं मनोरमा ।
यत्तथागतगन्धो वै सर्वकाये ददाति हि ॥ इति ॥
सर्वतथागतज्ञानावेशा, महाबोध्यङ्गसंचया, सर्वतथागतधर्मालोका, शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनगन्धा चेति । सर्वतथागताज्ञाकार्यः ॥
इ.1.34 वज्रन्कुस
अथ भगवान् वैरोचनस्तथागतः पुनरपि सर्वतथागतसमयां कुशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येयं सर्वतथागतसर्वमुद्रागणपतिं स्वहृदयान्निश्चचार वज्रांकुश ॥
अथास्मिन् विनिःसृतमात्र सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिःसृतः । तेभ्यश्च सर्वतथागतमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्राङ्कुशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य वज्रद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतसमयानाकर्षयन्न, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां समाकर्षमहं दृढः ।
यन्मया हि समाकृष्टा भजन्ते सर्वमण्डलम् ॥ इति ॥
इ.1.35 वज्रपस
अथ भगवान् पुनरपि सर्वतथागतसमयप्रवेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्य मं सर्वतथागतमुद्राप्रवेशप्रतीहारं स्वहृदयान्निश्चचार वज्रपाश ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयप्रवेशमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसमयप्रवेशमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, पुनरप्येकघनो वज्रपाशमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य रत्नद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा सर्वतथागतां प्रवेशयन्न्, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां वज्रपाशमहं दृढः ।
यत्सर्वाणुप्रविष्टापि प्रवेश्यन्ते मया पुनः ॥ इति ॥
इ.1.36 वज्रस्फोत
अथ भगवान् पुनरपि सर्वतथागतसमयस्फोटमहासत्त्वसमयोद्भवसत्त्ववज्रन्नामसमाधिं समापद्येमं सर्वतथागतसमयबन्धन्नाम सर्वतथागतदूतं स्वहृदयान्निश्चचार वज्रस्फोट ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसमयबन्धमुद्रागणा भूत्वा विनिःसृतस्तेभ्यश्च सर्वतथागतसमयबन्धसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजःसमास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रस्फोटमहाबोधिसत्त्वकायः संभूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य धर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भत्वा, सर्वतथागतान बन्धयन्न, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां वज्रस्फोटमहं दृढः ।
यत्सर्वबन्धमुक्तानां सत्त्वार्थाद् बन्ध इष्यते ॥ इति ॥
इ.1.37 वज्रवेस
अथ भगवान् पुनरपि सर्वतथागतावेशमहासत्त्वसमयसंभवसत्त्ववज्रन्नाम समाधिं समापद्येमं सर्वतथागतसर्वमुद्राचेटं स्वहृदयान्निश्चचार वज्रावेशः ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः स एव भगवान् वज्रधरः सर्वतथागतसर्वमुद्रागणा भूत्वा विनिश्चरितः । तेभ्यश्च सर्वतथागतसर्वमुद्रागणेभ्यः सर्वलोकधातुपरमाणुरजः समास्तथागतविग्रहा विनिःसृत्य, एकघनो वज्रावेशमहाबोधिसत्त्वविग्रहः प्रादुर्भूय, भगवतो वज्रमणिरत्नशिखरकूटागारस्य कर्मद्वारमध्ये चन्द्रमण्डलाश्रितो भूत्वा, सर्वतथागतानावेशयन्न, इदमुदानमुदानयामास ।
अहो हि सर्वबुद्धानां वज्रावेशमहं दृढः ।
यत्सर्वपतयो भूत्वा चेटा अपि भवन्ति हि ॥ इति ॥
सवतथागतसमाकर्षणं, प्रवेशो, बन्धः, वशीकरणं चेति । सर्वतथागताज्ञाकराः ॥
अथ भगवान् सर्वतथागतासमाजाधिष्ठानाय वज्राच्छटिकासंज्ञामकार्षीत् । इदं सर्वतथागतसमाजाधिष्ठानहृदयमभाषत वज्रसमाज ॥
अथ तेन क्षपालवमुहूर्तेन सर्वतथागताच्छटिकासंज्ञासंचोदिताः सर्वलोकधातुप्रसरमेघसमुद्रेषु सर्वलोकधातुपरमाणुरजःसमास्तथागताः सबोधिसत्त्वपर्षन्मण्डलाः समाजमापद्य, येन भगवान् वज्रमणिरत्नशिखरकूटागारो येन च भगवान् वैरोचनस्तेनोपजग्मुरुपेत्य ओं सर्वतथागतपादवन्दनाङ्करोमि ॥ इत्येनेन प्रकृतिसिद्धेन मन्त्रेण रुचिजप्तेन सर्वतथागतपादवन्दनां कृत्वेदमुदानमुदानयामासुः ॥
अहो समन्तभद्रस्य बोधिसत्त्वस्य सत्क्रिया ।
यत्तथागतचक्रस्य मध्ये भाति तथागतः ॥
अथेदमुक्त्वा ते दशदिक्सर्वलोकधातुसन्निपतिताः सर्वतथागताः सर्वतथागताधिष्ठानेन भगवतो वैरोचनस्य हृदये सबोधिसत्त्वपर्षन्मण्डलाः प्रविष्टाः । तेभ्यश्च सर्वतथागतहृदयेभ्यः स्वानि स्वानि बोधिसत्त्वपर्षन्मण्डलानि विनिःसृत्य भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वपार्श्वेषु मण्डलीभूत्वा समापद्यावस्थिता इदमुदानमुदानयामासुः ।
अहो हि सर्वबुद्धानां महोदार्यमनादिजम् ।
यत्सर्वाणुप्रसंख्या वै बुद्धा ह्येकत्वमागता ॥ इति ॥
ह्य्म्न् ओf 108 नमेस् ओf महवज्रधर
अथ भगवन्तः सर्वतथागताः पुनरपि समाजमागम्यास्य वज्रधातुमहामण्डलस्याधिष्ठानायाशेषानवशेषस्य च सत्त्वधातोः परित्राणसर्वहितसुखावाप्त्यै यावत्सर्वतथागतसमताज्ञानाभिज्ञाभिसंबोध्युत्तमसिद्धये भगवन्तं सर्वतथागताधिपतिं स्ववज्रसत्त्वमनादिनिधनं महावज्रधरमनेन नामाष्टशतेनाध्येषितवन्तः ॥
वज्रसत्त्वमहासत्त्व वज्रसर्वतथागत ।
समन्तभद्र वज्राद्य वज्रपाणे नमो ऽस्तु ते
वज्रराज सुबुद्धाग्र्य वज्राङ्कुशतथागत ।
अमोघराज वज्राग्र्य वज्राकर्ष नमोस्तु ते
वज्रराग महासौख्य वज्रवाण वशङ्कर ।
भारकाम महावज्र वज्रचापो नमो ऽस्तु ते
वज्रसाधो सुसत्त्वाग्र्य वज्रतुष्टि महारते ।
प्रामोद्यराज वज्राग्रय वज्रहर्ष नमो ऽस्तु ते
वज्ररत्न सुवज्रार्थं वज्राकाश महामणे ।
आकाशगर्भ वज्राढ्य वज्रगर्भ नमोस्तु ते
वज्रतेज महाज्वाल वज्रसूर्य जिनप्रभ ।
वज्ररश्मि महातेज वज्रप्रभ नमो ऽस्तु ते
वज्रकेतु सुसत्त्वार्थ वज्रध्वज सुतोषक ।
रत्नकेतु महावज्र वज्रयष्टे नमो ऽस्तु ते
वज्रहास महाहास वज्रस्मित महाद्भुत ।
प्रीतिप्रामोद्य वज्राग्र्य वज्रप्रीते नमो ऽस्तु ते
वज्रधर्म सुतत्वार्थ वज्रपद्म सुशोधक ।
लोकेश्वर सुवज्राक्ष वज्रनेत्र नमो ऽस्तु ते
वज्रतीक्ष्ण महायान वज्रकोश महायुध ।
मञ्जुश्री वज्रगांभीर्य वज्रबुद्धे नमो ऽस्तु ते
वज्रहेतु महामण्ड वज्रचक्र महानय ।
सुप्रवर्तन वज्रोत्थ वज्रमण्ड नमो ऽस्तु ते
वज्रभाष सुविद्याग्र्य वज्रजाप सुसिद्धिद ।
अवाच वज्रसिद्ध्यग्र वज्रवाच नमो ऽस्तु ते
वज्रकर्म सुवज्राज्ञा कर्मवज्र सुसर्वग ।
वज्रामोघ महोदार्य वज्रविश्व नमो ऽस्तु ते
वज्ररक्ष महाधैर्य वज्रवर्म महादृढ ।
दुयोधन सुवीर्यग्र्य वज्रवीर्य नमो ऽस्तु ते
वज्रयक्ष महोपाय वज्रदंष्ट्र महाभय ।
भारप्रमर्दिन् वज्रोग्र वज्रचण्ड नमो ऽस्तु ते
वज्रसन्धि सुसान्निध्य वज्रबन्ध प्रमोचक ।
वज्रमुष्ट्यग्रसमय वज्रमुष्टे नमो ऽस्तु ते
यः कश्चिद् धारयेन्नाम्नामिदन्ते ऽष्टदशतं शिवम् ।
वज्रनामाभिषेकाद्यैः सर्वाग्रैः सो ऽभिषिच्यते
यस्तु गौणमिदन्नाम्नां महावज्रधरस्य तु ।
शश्वद्गेयं स्तुयात् सो ऽपि भवेद्वज्रधरोपमः
अनेनाभिष्टुतो ऽस्माभिर्नाम्नामष्टशतेन तु ।
महायानाभिसमयं विस्फारय महानयम्
अध्येषयामस्त्वां नाथ भाषस्व परमं विधिम् ।
सर्वबुद्धमहाचक्रं महामण्डलमुत्तमम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0