सर्वतथागततत्त्वसंग्रह · अध्याय 1
सर्व तथागत तत्त्व सङ्ग्रह्
छप्तेर् 1
वज्रधतु-मह-मन्दल-विधि-विस्तर-मन्दल इ.1
[एवं मया श्रु]तमेकस्मिन् समये भगवान् सर्वतथागत-वज्राधिष्ठानसमयज्ञानविविधविशेषसमन्वागतः, सर्वतथागतरत्नमुकुटत्रैधातुकधर्मराज्याभिषेकप्राप्तः, सर्वतथागतसर्वज्ञानमहायोगीश्वरः, सर्वतथागतसर्वमुद्रासमताधिगतविश्वकार्यकरणताशेषानवशेषसत्त्वधातुसर्वाशापरिपूरकः, महाकृपो वैरोचनः शाश्वतस्त्र्यध्वसमयव्यवस्थितः सर्वकायवाक्चित्तवज्रस्तथागतः, सर्वतथागताध्युषितप्रशस्तस्तविते महामणिरत्नप्रत्युप्ते विचित्रवर्णघण्टावसक्तमारुतोद्धतपट्टस्रक्चामरहारार्धहारचन्द्रोपशोभिते अकनिष्ठदेवराजस्य भवने विजहार । नवनवतिभिर्बोधिसत्त्वकोटिभिः सार्धं, तद्यथा वज्रपाणिना च बोधिसत्त्वेन, अवलोकितेश्वरेण च बोधिसत्त्वेन, आकाशगर्भेण च, वज्रमुष्टिना च, मञ्जुश्रिया च, सहचित्तोत्पादधर्मचक्रप्रवर्तिना च, गगनगञ्जेन च सर्वमारबलप्रमर्दिना च, एवंप्रमुखैर्नवनवतिभिर्बोधिसत्त्वकोटिभिः; गङ्गानदीवालुकासमाख्यातैश्च तथागतैः, तद्यथापि नाम तिलबिम्बमिव परिपूर्णं जम्बूद्वीपे संदृश्यते । तैश्चाप्रमेयैस्तथागतैरेकैकस्माच्च तथागतकायादप्रमेयासंख्येयानि बुद्धक्षेत्राणि संदृश्यन्ते, तेषु च बुद्धक्षेत्रेषु इममेव धर्मनयं देशयन्ति स्म ।
अथ भगवान् महावैरोचनः सर्वाकाशधातुसदावस्थितकायवाक्चित्तवज्रः सर्वतथागतसमवसरणतया सर्ववज्रधात्ववबोधनज्ञानसत्त्वः सर्वाकाशधातुपरमाणुरजो वज्राधिष्ठानसम्भवज्ञानगर्भः सर्वतथागतानन्ततया महवज्रज्ञानाभिषेकरत्नः सर्वाकाशस्फरणतथताज्ञानाभिसम्बोध्यभिसम्बोधिभूतः सर्वतथागतात्मभावशुद्धितयास्वभावशुद्धसर्वधर्मः सर्वाकाशचर्याग्र्यः सर्वतथागतामोघाज्ञाकारितया सर्वासमानुत्तरविश्वकर्मा । सर्वतथागतमहाबोधिदृढसत्त्वः सर्वतथागतकर्षणसमयः सर्वतथागतानुरागणज्ञानेश्वरः सर्वतथागतसाधुकारः सर्वतथागतमहाभिषेकरत्नः सर्वतथागतसूर्यप्रभामण्डलः सर्वतथागतचिन्ताराजमणिरत्नकेतुः सर्वतथागतमहाहासः सर्वतथागतमहाशुद्धधर्मः सर्वतथागतप्रज्ञाज्ञानः सर्वतथागतचक्रः सर्वतथागतमहावीर्यसुदृढकवचः सर्वतथागतरक्षपरिपालनवज्रयक्षः सर्वतथागतकायवाक्चित्तवज्रबन्धमुद्राज्ञानः ।
एउलोग्य् ओf समन्तभद्र थे महबोधिस्तत्त्व
समन्तभद्रः स्वमोघः मारः प्रामोद्यनायकः ।
खगर्भः सु[महाते]जा रत्नकेतुर्महास्मितः
अवलोकितमहेशश् च मञ्जुश्रीः सर्वमण्डलः ।
अवाचो विश्वकर्मा च वीर्यश्चण्डो [दृढग्रहः]
वज्रो ऽङ् कुशः शरस्तुष्टिः रत्नः सूर्यो ध्वजः स्मितः ।
पद्मः कोशः सुचक्रो वाक् कर्म वर्म रवयो ग्रहः
अनादिनिध[नः शान्तो रुद्रः क्रोधो महा]क्षमः ।
यक्षः सुराक्षसो धीरः सौरिः सौरिर्महाविभुः
उमापतिः प्रजानाथो विष्णुर्जिष्णुर्महामुनिः ।
लोकपालो नभो भूमि[स्त्रिलोक]स्तु त्रिधातुकः
महाभूतः सुसत्त्वार्थः सर्वः शर्वः पितामहः ।
संसारो निर्वृतिः शश्वत् सम्यग्वृत्तिर्महामहः
बुद्धः शुद्धो महायानस्त्रिभवः शाश्वतो हिसः ।
त्रिलोकविजयी शम्भुः शम्भुनाथः प्रदामकः
॥
वज्रनाथः सुभूम्यग्र्यो ज्ञानः पारमितानयः ।
विमोक्षो बोधिसत्त्वश्च चर्यः सर्वतथागतः
बुद्धार्थो बुद्धहृदयः सर्वबोधिरनुत्तरः ।
वैरोचनो जिनो नाथः स्वयंभूर्धारणी स्मृतिः
महासत्त्वो महामुद्रः समाधिर्बुद्धकर्मकृत् ।
सर्वबुद्धात्मको भूतः सत्त्वो नित्यार्थबोधकः
महास्थाणुर्महाकालो महारागो महासुखः ।
महापापो महाग्र्याग्र्यः सर्वाग्र्यो भुवनेश्वरः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0