भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 3

3.1

इति ॥
देलिनेअतिओन् ओf थे मन्दल
अथ भगवान् वज्रधरः सर्वतथागताध्येषणवचनमुपश्रुत्य सर्वतथागतसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्ये वज्रधातुन्नाम महामण्डलमुदाजहार ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् ।
वज्रधातुप्रतीकाशं वज्रधातुरिति स्मृतम्

3.2

उपविश्य यथास्यायं मण्डलस्य तु मध्यतः ।
महासत्वमहामुद्रां भावयं समधिष्ठ्य च

3.3

तथैवोत्थाय मुद्रास्थः सर्वतो व्यवलोकयेत् ।
परिक्रमेत गर्वेण वज्रसत्त्वमुदाहरन्

3.4

नवेन सुनियुक्तेन सुप्रमाणेन चारुणा ।
सूत्रेण सूत्रयेत् प्राज्ञैर्यथाशक्तेन मण्डलम्

3.5

चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् ।
चतुःसूत्रसमायुक्तं पट्टस्त्रग्दामभूषितम्

3.6

कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम्

3.7

तस्य चक्रप्रतीकाशं प्रविश्याभ्यन्तरं पुरम् ।
वज्रसूत्रपरिक्षिप्तमष्टस्तम्भोपशोभितम्

3.8

वज्र [स्तंभाग्रस्थश्चन्द्रपञ्च] मण्डलमण्डितम् ।
मध्यमण्डलमध्ये तु बुद्धबिम्बन्निवेशयेत्

3.9

बुद्धस्य सर्वपार्श्वेषु मण्डलानान्तु मध्यतः ।
समयाग्र् यश्चतस्रो हि संलिखेदनुपूर्वशः

3.10

वज्रवेगेन चाक्रम्य मण्डलानां चतुष्टये ।
अक्षोभ्याद्यांस्तु चतुरः सर्वबुद्धान्निवेशयेत्

3.11

अक्षोभ्यमण्डलं कुर्यात्समं वज्रधरादिभिः ।
वज्रगर्भादिभिः पूर्णं रत्नसंभवमण्डलम्

3.12

वज्रनेत्रादिभिः शुद्धं मण्डलममितायुषः ।
अमोघसिद्धेः संलेख्यं वज्रविश्वादिमण्डलम् ॥ इति

3.13

चक्रस्य कोणसंस्थेषु वज्रदेव्यः समालिखेत् ।
बाह्यमण्डलकोणेषु बुद्धपूजाः समालिखेत्

3.14

द्वारमध्येषु सर्वेषु द्वारपालचतुष्टयम् ।
बाह्यमण्डलसंस्थेषु महसत्वान्निवेशयेत्

3.15

ततो वै सम्यगाग्रीन्तु मुद्रां बध्वा यथाविधि ।
वज्राचार्यः प्रविष्ट्वा तु स्फोट्य मुद्रां समाविशेत

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc