सर्वतथागततत्त्वसंग्रह · अध्याय 189
इत्याह भगवान् वज्रगर्वापतिः ॥
तत्रेदं वज्रकुलसमयमुद्रागुह्यसिद्धितन्त्रं ।
"सिध्य सिध्याद्य समये समयो ऽहं त्वं प्रिया मम" ।
इति चोदनया शीघ्रमनुरक्ता प्रसिध्यती- ॥
त्याह भगवान् वज्रसत्वः ॥
तत्रेदं पद्मकुलधर्ममुद्रागुह्यसिद्धितन्त्रं ।
"बुध्य बुध्य महासत्वि भार्या मे त्वमतिप्रिया" ।
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥
त्याह भगवान् वज्रधर्मः ॥
तत्रेदं मणिकुलकर्ममुद्रागुह्यसिद्धितन्त्रं ।
"सर्वकर्मकरी भार्या त्वं मे सिध्याद्य वज्रिणि" ।
इति चोदनया शीघ्रमनुरक्ता तु सिध्यती- ॥
त्याह भगवानाकाशगर्भः ॥
सर्वकुलसर्वमुद्रा[गुह्यसि]द्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसमयगुह्यसिद्धितन्त्रमुदाजहार ।
तत्रेदं तथाग[तसमयगु]ह्यसिद्धितन्त्रं ।
तीर्थिकानां हितार्थाय बुद्धभार्या प्रगोपिता ।
लेख्या मुद्रा प्रयोगेण इति विज्ञेय सिध्यती- ॥
त्याह भगवान् सर्वतथागत[समयः ॥]
तत्रेदं तथागतकुलसमयगुह्यसिद्धितन्त्रं ।
सर्वसत्वमनोव्यापी सर्वसत्वसुखप्रदः ।
सर्वसत्वपिता चैव कामो ऽग्रः समयाग्रिणाम् ॥
इत्याहुर्भगवन्तः सर्वतथागताः ॥
इदं तत्सर्वबुद्धानां रहस्यं परमाद्भुतं ।
विज्ञेय श्रद्दधच्छ्द्धो दुःसाध्यो ऽपि हि सिध्यती- ॥
त्याह भगवान् वज्रधरः ॥
तत्रेदं वज्रकुलसमयगुह्यसिद्धितन्त्रं ।
रागशुद्ध्यै विरक्तानां तीर्थ्यदृष्टिकृतात्मनां ।
मारणं समयं त्वग्रमिदं विज्ञेयं सिध्यती- ॥
त्याह भगवान् वज्रधरः ॥
तत्रेदं पद्मकुलसमयगुह्यसिद्धितन्त्रं ।
महाभूतोद्भवं सर्वं, कथं त्वशुचिरुच्यते? ।
तीर्थिकानां विनाशाय ध्रुवं सिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् वज्रनेत्रः ॥
तत्रेदं मणिकुलसमयगुह्यसिद्धितन्त्रं ।
स्त्रीप्रसङ्गात्तु रत्नानां संचयः क्रियते यदा ।
स्त्रियो ह्यनुत्तरं रत्नमिति चिन्त्यते सिध्यती- ॥
त्याह भगवानाज्ञाकरः ॥
सर्वकलसमयगुह्यसिद्धिविधिविस्तरतन्त्रः ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतपूजागुह्यसिद्धितन्त्रमुदाजहार । तत्रायं तथागतपूजागुह्यसिद्धितन्त्रः ।
स्त्रीभिः परिवृतो भूत्वा परिहासक्रिया सुखं ।
निर्यात्य बुद्धपूजायां पूजासिद्धिमवाप्नुयाद् ॥
इत्याह भगवान् बुद्धः ।
तत्रेदं तथागतकुलपूजागुह्यसिद्धितन्त्रं ।
सुरतश्रमखिन्नस्तु तत्सौख्यं सुरतोद्भवं ।
चतुःप्रणामे पूजायां निर्यात्य लघु सिध्यती- ॥
त्याह भगवान् वज्रधरः ॥
तत्रेदं वज्रकुलपूजागुह्यसिद्धितन्त्रं ।
हुंकारसमयां बध्वा परिष्वज्य स्त्रियं जनं ।
तत्परिष्वङ्गसौख्यं तु निर्यात्य हि स सिध्यती- ॥
त्याह भगवान् वज्रहुंकारः ॥
तत्रेदं पद्मकुलपूजागुह्यसिद्धितन्त्रं ।
लोकेश्वरमहं भाव्य प्रियावक्त्रं निरीक्षन्वै ।
तन्निरीक्षणसौरव्यं तु निर्यात्य हि स सिध्यती- ।
त्याह भगवान् पद्मनेत्रः ॥
तत्रेदं मणिकुलपूजागुह्यसिद्धितन्त्रं ।
कर्ममुद्राधरो भूत्वा सर्वाभरणभूषितः ।
स्त्रियं परिष्वज्य पूजायां विभूतिं निर्यात्य सिध्यती- ॥
त्याह भगवान् वज्ररत्नः ॥
सर्वकुलपूजागुह्यसिद्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतगुह्यपूजासिद्धितन्त्रमुदाजहार । तत्रेदं तथागतगुह्यपूजासिद्धितन्त्रं ।
रमयन् परदाराणि यथा[क]श्चिन्न वेदयेत् ।
भावयन् बुद्धमात्मानं पूजया सिद्धिमाप्नुयाद् ॥
इत्याह भगवान् बुद्धः ॥
तत्रेदं तथागत[कुल]गुह्यपूजासिद्धितन्त्रं ।
वज्रलास्यां समाधाय वज्रमालां तु बन्ध[येत्] ।
वज्रगीतां ततो बध्वा पूजयेद् वज्रनृत्यया ॥
का[मरत्याभिषेका]ग्र्या नृत्यगीतसुखात्सुखं ।
नान्यदस्ति हि तेनेयं गुह्यपूजा निरुत्तरा ॥
तत्रेदं वज्रकुलगुह्यपूजासिद्धितन्त्रं ॥
यथावद् विधियोगेन पूज[येद्] गुह्यपूजया ।
त्रिलोकविजयं भाव्य पूजासिद्धिम वाप्नुयाद् ॥
इत्याह भगवान् वज्रगुह्यः ।
तत्रेदं पद्मकुलगुह्यपूजासिद्धितन्त्रं ।
य[थावद् गु]ह्ययोगेन धर्ममुद्रा सुपूजयन् ।
जगद्विनयमुद्रास्थः पूजासिद्धिमवाप्नुते- ॥
त्याह भगवानवलोकितेश्वरः ॥
तत्रेदं मणिकुलगुह्यपूजासिद्धितन्त्रं ।
यथावद् गुह्ययोगेन कर्ममुद्रा सुसाधयन् ।
सर्वार्थसिद्धियोगेन पूजासिद्धिमवाप्नुते- ॥
त्याह भगवान् वज्रगर्भः ॥
सर्वकुलगुह्यपूजाविधिविस्तरतन्त्रं ॥
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतकुलोद्घाटनगुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागततत्वोत्पत्तिसिद्धिगुह्यतन्त्रं ।
समाधिज्ञानसंभूतं बुद्धत्वं हि समासतः ।
सत्वरागणयोगेन शीघ्रमाप्नोत्यनुत्तरम् ॥
इत्याह भगवांस्तथागतः ।
तत्रेदं तथागतकुलमहातत्त्वोद्घाटनसिद्धिगुह्यतन्त्रं ।
अनादिनिधनः सत्वः आकाशोत्पत्तिलक्षणः ।
समन्तभद्रः सर्वात्मा कामः सर्वजगत्पतिः
यच्चित्तं सर्वसत्वानां दृढत्वात् सत्वनुच्यते ।
समाधानाद् वज्रसमो निश्चयैर्याति वज्रतां
सत्वाधिष्ठानयोगेन वज्रसत्वः पुनर्भवेत् ।
स एव भगवान् सत्वो वज्रकायस्तथागतः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0