भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 190

190.1

स्वचित्तप्रतिवेधादिबुद्धबोधिर्यथाविधि ।
स एव भगवान् सर्वतथागतकुलं भवेद् ॥
इत्याह भगवाननादिनिधनसत्वः ॥
तथागतकुलं सैव सैव वज्रकुलं स्मृतं ।
सैव पद्मकुलं शुद्धं सैवोक्तं मणिसत्कुलम् ॥
इत्याह भगवान् सर्वतथागतचक्रः ॥
सर्वकुलोत्पादनगुह्यसिद्धिविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमुद्राचिन्हाभिधानसिद्धिगुह्यतन्त्रमुदाजहार ।
तत्रेदं तथागतचिन्हाभिधानसिद्धिगुह्यतन्त्रं भवति ।
स एव भगवान् सत्वो वज्रसत्वो हृदि स्थितः ।
समाधानात्समाधिस्तु बुद्धबोधिप्रसाधक ॥
इत्याह भगवान् बुद्धः ॥
तत्रेदं तथाकुलचिन्हाभिधानसिद्धिगुह्यतन्त्रं ।
वज्रं सुप्रतिवेधत्वादङ्कुशं ग्रहमोचकः ।
सूक्ष्मवेधितया वाणं साधुकारस्तु तुष्टितः

190.2

रत्नस्तु रचनादुक्तः सूर्यस्तेजो विधानतः ।
केतुः समुच्छ्रयः प्रोक्तः स्मितो हासस्तु कीर्तितः

190.3

रागशुद्धितया पद्मं कोशः क्लेशारिच्छेदनात् ।
चक्रो मण्डलयोगात्तु वाग्लापाज्जपनुच्यते

190.4

सर्ववज्रं तु विश्वत्वाद् वर्मदुर्भेद्ययोगतः ।
दंष्ट्रा भीषणयोगात्तु बन्धो मुद्राप्रयोगतः

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc