सर्वतथागततत्त्वसंग्रह · अध्याय 188
इत्याह भ[गवान् वज्रसत्वः ॥]
सर्वकुलमण्डलसिद्धिगुह्यविधिविस्तरतन्त्रं ॥
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतसर्वमुद्रागुह्यसिद्धितन्त्रमुदाजहार । तत्रेदं तथागतमुद्रागुह्यसिद्धितन्त्रं ।
तथागतमहादेव्यः प्रियाः सर्वसुखप्रदाः ।
सत्यानुपरिवर्तिन्या वास्सत्यैः सापि ता यन्न सिध्यत ॥
इत्याह भगवान् बुद्धः ॥
तत्रेदं तथागतकुलमहामुद्रागुह्यसिद्धितन्त्रं ।
महामुद्रां तु वै बध्वा यथावदनुपूर्वशः ।
इदं तत्वं रहस्यं च वज्रवाचा वदेत्वयं
वज्रसत्वः स्वयमहं त्वम्मे भार्या हृदि स्थिता ।
सर्वकायं परिष्वज्य वज्रगर्वे समुत्क्षिप
वज्रगर्वा महादेवी तत्वचोदानुरागिता ।
सर्वकाये दृढीभूत्वा यथावत्सिध्यते लघुर्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0