सर्वतथागततत्त्वसंग्रह · अध्याय 19
तत्रैषां हृदयानि भवन्ति ।
वज्र रागय होः ॥
वज्राङ्कु श जः ॥
मारय मारय फट् ॥
बन्ध रक्ष हं ॥
ततो वज्रगुह्यदृष्टिमुद्राज्ञानं शिक्षयेत् ।
वज्रदृष्टिस्तु संरागप्रहर्षोत्फुल्ललोचना ।
तया निरीक्षता स्त्री तु वश्या भवति शाश्वती
प्रद्रुतप्रचलच्चक्षुः पक्ष्मकर्षणलोचना ।
दीप्तकृष्टिरिति प्रोक्ता सर्वमाकर्षयेज्जगत्
प्रध्वस्तभृकुटीभङ्गक्रोधसंकुचितेक्षणं ।
क्रोधदृष्टिं समाधाय त्रैलोक्यमपि नाशयेत्
मेरुमर्दनपाषाणदृढानिमिषलोचना ।
मैत्रीदृष्टिरिति ख्याता ज्वरग्रहविषापहा ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0