भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 173

173.1

इनितिअतिओन् इन्तो थे मन्दल
अथात्र कर्ममण्डले यथावद्विधिविस्तरं कृत्वा प्रवेश्यैवं वदेत् । "न त्वया कस्यचिदयं वक्तव्यः । मा ते कर्मावरणधिष्ठितस्यैव मरणं भवेद्" इति, उक्त्वा, मणिकर्मज्ञानानि शिक्षयेत् ।
मुद्र
वज्रगर्भमहामुद्रां बध्वा तु समाहितः ।
पूजयं सर्वपूजाभिः सर्वबुद्धान् वशन्नयेत्

173.2

बध्वा चैकतराम्मुद्रां समयग्रीं समाधिना ।
पूजयं सर्वबुद्धां हि स्वभिषेकां स लप्स्यति

173.3

वज्रगर्भसमाधिं तु भावयं सुसमाहितः ।
पूजयं सर्वबुद्धांस्तु नाशयेज्जगदुत्तमं

173.4

बध्वा कर्ममयीं मुद्रां वज्रगर्भसमाधिना ।
पूजयं सर्वबुद्धांस्तु सवार्थां लभते क्षणाद् ॥ इति ॥

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc