सर्वतथागततत्त्वसंग्रह · अध्याय 174
तत्रैषां हृदयानि भवन्ति ।
ओं रत्नपूजा वशीकुरु ॥
ओं रत्नपूजासमयाभिषिञ्च ॥
ओं रत्नपूजाधर्म नाशय पतिं ॥
ओं रत्नपूजाकर्म सर्वार्थान् मे दद ॥
अथ रहस्यमुद्राकर्मज्ञानं भवति ।
द्वयेन्द्रियसमापत्त्या वज्रगर्भसमाधिना ।
पूजयं सर्वबुद्धांस्तु सर्वलोकं स रागयेद् ॥ इति ॥
ततो यथावन्महामुद्राज्ञानेनोत्तमसिद्धय ॥ इति ॥
अथ समयमुद्राज्ञानं शिक्षयेत् ।
वज्ररत्नं समाधायस्थानेषु संस्थयेत् ।
वज्रकार्यप्रयोगेण यथावदनुपूर्वशः ॥
अथ धर्ममुद्राज्ञानं भवति ।
त्वः, जः, गः, ध्रुः, त्नः, जाः, तुः, सः,
मीः, क्ष्णः, नुः, षः, र्मः, क्षः, क्षः, धीः ।
वज्ररत्नां द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥
सर्वतथागतकर्मसमयान् महाकल्पराजात् कर्ममण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 22ब् एपिलोगुए ओf थे सर्व-तथगत-कर्म-समय नम मह-कल्प-रज मन्दल इव्.5
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् रत्नमुद्रान् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्ररत्ने त्रां ॥
अथ वज्रपाणिर्बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्रमाले हूं ॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं मणिरत्ने ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां [स्वमु]द्रामभाषत् ओं धर्मरत्ने ॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं विश्वदृष्टि ॥
देलिनेअतिओन् ओf थे मन्दल
अथार्याकाश[गर्भो बोधि]सत्व इदं मणिकुलचतुर्मुद्रामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
चतुर्मुद्राप्रयोगेण मण्डलं परिकल्पयेत् ॥
ततो यथावत् प्रवेश्य शिक्षयेत् "न त्वया कस्यचिद् वक्तव्यम्" इति ॥
ज्नन
ततो ज्ञानान्युत्पादयेत् ।
वज्ररत्नं समाधाय वज्ररत्नसमाधिना ।
ललाटे तु प्रतिष्ठाप्य सर्वसिद्धिमवाप्नुयाद् ॥ इति ॥
अथात्र हृदयं भवति ।
ओं वज्ररत्न सर्वाभिषेक सर्वसिद्धयो मे प्रयच्छ रल रल हूं त्रः ॥
मुद्र
ततो रहस्यमुद्रां दर्शयेत् ।
पतिं वापि प्रियां वापि स्त्रियं वा पुरुषो ऽपि वा ।
ललाटद्वयसन्धानाच्चुम्बं द्वावपि सिध्यतः ॥
तत्रास्याः साधनहृदयं भवति ओं वज्ररत्नसखि विद्याधर त्वं प्रयच्छ शीघ्रमभिषिञ्चाहि ह ह ह ह त्रः ॥
ततो यथावच्चतुर्मुद्राबन्धं चतुर्विधं शिक्षयेत् ।
तथैव सिद्धय इति ॥
चतुमुद्रामण्डलं ॥
इव्. 6 एकमुद्र-मन्दल ओf सर्वर्थसिद्धि
अथाकाशगर्भो बोधिसत्वो महासत्व इदं सर्वार्थसिद्धिं नाम मण्डलमभाषत् ओं वज्रमणिधर सर्वार्थसिद्धिं मे प्रयच्छ हो भगवन् वज्ररत्न हूं ॥
देलिनेअतिओन् ओf थे मन्दल
अथात्र मण्डलं भवति ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं ।
यथावत्तु समालेख्यं सर्वसिद्धेस्तु मण्डलम् ॥ इति ॥
मुद्र
अथात्र ज्ञानरहस्यमुद्राज्ञानं शिक्षयेत् ।
रूपादीनां तु कामानामविरक्तः सुखानि तु ।
निर्यातयंस्तु बुद्धेभ्यः कल्पसिद्धिमवाप्नुत ॥ इति ॥
ततश्चतुर्विधं मुद्राज्ञानं शिक्षयेत् ॥
एवं पटादिषु सत्वं मुद्रां वा मण्डलेषु लिख्य साधयेदिति ॥
अथ सर्वतथागताः पुनः समाजमागम्याकाशगर्भं महाबोधिसत्वमनेन साधुकारदानेनाच्छादितवन्तः ।
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
साधु ते वज्रधर्माय साधु ते वज्रकर्मणे ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥
सर्वतथागततत्वसंग्रहात्सर्वतथागतकर्मसमयो नाम महाकल्पराजः परिसमाप्तः ॥
छप्तेर् 23 सर्व-कल्पोपय-सिद्धि-विधि-विस्तर-तन्त्र
अथ वज्रपाणिर्महाब्रोधिसत्व इदं सर्वतथागतमहातत्वविधिविस्तरतन्त्रमुदाजहार । तत्र प्रथमं तावत् महामुद्रोत्तमसिद्धितन्त्रं भवति ।
तथागतमहामुद्रां बध्वा सर्वखधातुषु ।
बुद्धबिम्बानधिष्ठाय स्वहृदिस्तु प्रवेशयेत्
इहैव जन्मनि वरं यदीच्छेदुत्तमं शिवं ।
बुद्धत्वं तेन कामेदं न चेत् सिद्धिर्यथोपरि
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0