सर्वतथागततत्त्वसंग्रह · अध्याय 163
तत्रासां हृदयानि भवन्ति ।
ओं महासिद्धिः ॥
ओं समयाभिषेकसिद्धिः ॥
ओं धर्मसिद्धिः ॥
ओं कर्मसिद्धिः ॥
अथात्र मण्डले महामुद्राबन्धो भवति ।
रत्नवज्राङ्कुरां बध्वा मध्यानामान्तिमाङ्गुली ।
प्रसारितास्तु संधाय मूर्ध्नि स्थाप्याग्रसिद्धिदा
वज्रबन्धं समाधाय ग्रन्थिताग्र्या युयोर्णगा ।
द्वयङ्गुष्ठानामिका वज्रा परिवर्त्याभिषेकदा
वज्ररत्नप्रयोगेण सा एव परिवर्तिता ।
तर्जन्यग्रमुखा सङ्गादभिषेकन्ददाति सा
सा एवाङ्गुष्ठज्येष्ठाभ्यां धर्मवज्रप्रयोगतः ।
बध्वा ललाटगा चैव महाधर्माभिषेकदा
कर्मवज्रां समाधाय ललाटे परिवर्त्य वै ।
सर्वाभिषेकमालां तु स्थापयन्नभिषिञ्चति
रत्नसंभवमुद्रां तु समयां वज्रधातुजां ।
बध्वा रत्नप्रतिष्ठां तु ललाटे त्वभिषिच्यते
अङ्गुष्ठा बन्धपर्यङ्का तर्जनीद्वयसन्धिता ।
मणिमुखाग्र्ययोः कुर्यान्महावज्रमणिं लभेत्
वज्रबन्धं समाधाय मणिमुष्टिं प्रसारयेत् ।
मणिस्तु मध्यमाभ्यां तु मणिमालाभिषेकदा
वज्रबन्धं समाधाय मध्यमा मणियोजिता ।
द्व्यग्रानामविकासा तु पद्मङ्कृत्वा तुं सिध्यति
मध्यमाभ्यां मणिं बध्वा सर्वाङ्गुल्यः समुच्छिताः ।
भावयंस्तु मणीनेव भवेत् सुपरिवारवान्
वज्ररत्नं समाधाय [मध्यमाङ्]गुष्ठयोगतः ।
समानामकनिष्ठा तु जिव्हा मुखे मणिप्रदा
सा एव तर्जनी वज्रा तत्स्था एव तथाङ्कु शी ।
तर्जन्या तर्जनी कर्षा [ताभ्यन्तुष्टिप्रदायि]का
मध्यमाभ्यां मणिं बध्वा द्र्यग्रसंकोचसंस्थिता ।
बध्वानामाङ्गुलिमुखानङ्गुष्ठद्वयच्छादिता
सा एव सूर्यावर्ता तु मूर्ध्नि बाहुप्रसारिता ।
मणिं ध्वजाग्रकेयूरा हासयोगेन योजिता
वज्रबन्धं समाधाय ज्येष्ठानाममुखोच्छिता ।
ताभिः पद्मं तु संभाव्य मध्यमाम्यां मणीकृता
॥
सा एवान्त्यप्रदाना तु वज्रकोशप्रयोजिता ।
वज्रचक्रप्रयोगा तु सा एव मुखतोद्धृता
वज्ररत्नाङ्कु रां बध्वा सर्वाङ्गुल्यः प्रसारयेत् ।
तां तु मूर्ध्नि प्रतिष्ठाप्य रत्नवृष्टिस्तु वर्षयेत्
सा एव चक्रयोगा तु हृदि रत्नद्विधीकृता ।
मणिग्रहाग्रदंष्ट्रा तु मुष्टिर्मध्यमसन्धिते ॥ ति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0