भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 164

164.1

ततः समयमुद्राज्ञानं शिक्षयेत् ।
एता एव महामुद्राः संपुटीकृत्य बन्धयेत् ।
गुह्यगुह्याः समासेन सिद्धिन्दद्युश्चतुर्गुणम् ॥ इति ॥
यथावद् वज्रगुह्ये तु सर्वकालं न बन्धयेत् ।
अतः परं प्रवक्ष्यामि धर्भमुद्राः समासत ॥ इति ॥
त्रैः ग्रैः हैः सैः ग्र्यः ख द्व्यैः हैः
ध्रैः ध्यैः क्रैः वैः क्रयैः रै य्यः मैः ।
गुह्यगुह्याग्रमुष्टिस्तु द्विधीकृत्य सर्वकर्मिका ॥ इति ॥
सर्वतथागतकर्मसमयात् महाकल्पराजाद् रत्नगुह्यमुद्रामण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 21 ज्नन-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतेइस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागताभिषेकज्ञानसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागताभिषेकज्ञानोत्तम हूं ॥
अथ वज्रपाणिर्महाबोधिसत्व इमं स्वविद्योत्तममभाषत् ओं वज्रज्ञानाभिषेकसमय हूं ॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं मणिरत्नाभिषेकज्ञान हूं ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं धर्माभिषेकज्ञानं हूं ॥
अथ वज्रविश्वो बोधिसत्त्वो महासत्वः इमं स्वविद्योत्तममभाषत् ओं सर्वाभिषेकज्ञान हूं ॥
देलिनेअतिओन् ओf थे मन्दल
अथाकाशगर्भो बोधिसत्वो महासत्वः इदं स्वकुलज्ञानमण्डलममभाषत् ।
अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नज्ञानमितिस्मृतं

164.2

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
हृदि चिन्हास्तु संलेख्या धर्ममण्डलयोगत ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc