सर्वतथागततत्त्वसंग्रह · अध्याय 162
तत्रैषां हृदयानि भवन्ति ।
ओं वज्ररत्नहृदयाभरण हूं ॥
ओं वज्ररत्नाभिषेक महार्थप्रद ॥
ओं वज्ररत्नवाचस्पते ॥
ओं वज्ररत्नमहाकर्मपते ॥
ततो मणिकुलसमयमुद्रारहस्यज्ञानं शिक्षयेत् ।
महावज्रमणिं बध्वा तन्मणिं स्त्रीभगे तथा ।
प्रवेश्य तु महामुद्रां भावयन् सिद्धिमाप्नुते
समयाग्र्या मणिं बध्वा स्त्रीभगे समयग्र्यया ।
बन्धया तु भवेत्सिद्धिरभिषेकेषु सर्वतः
महावज्रमणिं बध्वा धर्ममुद्रां तु भावयन् ।
तन्मणिं स्त्रीभगे विध्वा भवेत्सिद्धिरनुत्तरा
कर्ममुद्रामणिं विध्वा स्त्रीभगे कर्ममुद्रया ।
बन्धया तु भवेत्सिद्धिः सर्वकर्मस्वनुत्तरम् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0