सर्वतथागततत्त्वसंग्रह · अध्याय 15
इति ॥
अथ धममुद्रा भवन्ति ।
वज्रज्ञानं तु बुद्धानां वज्रधातु दृढंकरम् ।
अतः परं प्रवक्ष्यामि धर्ममुद्रा यथाविधि
"समयस्त्वम्" इति प्रोक्ते सर्वमुद्रापतिर्भवेत् ।
"अन्यस्व" इति वै प्रोक्ते बुद्धानाकर्षयेद् ध्रुवम्
"अहो सुख" इति प्रोक्ते बुद्धानपि स रागयेत् ।
"साधु साध्व्" इति वै प्रोक्त्वा साधुकारैः स तोषयेत्
"सुमह[त्त्वम्" इति] प्रोक्ते सर्वबुद्धाभिषेचनम् ।
"रूपोद्योते"- ति वै प्रोक्ते धर्मतेजो भविष्यति
"अर्थप्राप्तिर" इति प्रोक्ते सर्वाशाः पूरयेत् स तु ।
"ह ह हूं हे- "[ति प्रोक्ते समबुद्धहासं प्राप्नु] यात्
"सर्वकारि" इति प्रोक्ते अकार्यमपि शोधयेत् ।
"दुः खच्छेद" इति प्रोक्ते सर्वदुःखाञ्छिनत्ति सः
["बुद्ध बोधि" इति] प्रोक्ते मण्डलाधिपतिर्भवेत् ।
"प्रतिशब्द" इति प्रोक्ते बुद्धैः सहसमालपेत्
।
"शुभसिद्धम्" इति प्रोक्ते वशित्वं सर्वतो भवेत् ।
["निर्भयस्त्वम्" इति] प्रोक्ते निर्भयो भवेत्तत्क्षणात्
"शत्रु भक्ष" इति प्रोक्ते सर्वशत्रुन् स भक्षयेत् ।
"सर्वसिद्धिर्" इति प्रोक्ते सर्वसिद्धिर्भविष्यति
["महारति" रतिं] दिव्यां "रूपशोभा" तथैव च ।
"श्रोत्रसौख्या" सुखं दद्यात् "सर्वपूजा" सुपूजताम्
"प्रल्हादिनि" मनःसौख्यं "फलागमी" फलागमा ।
"सु[तेजाग्रि" महातेजः] "सुगन्धाङ्गि" सुगन्धताम्
"अयाहि जः" समाकर्षा "अहि हूं हूं" प्रवेशिका ।
"हेस्फोट वं" महाबन्धा "घण्टा अः अः" प्रचालिते- ॥ ति
अथासां धर्ममुद्रा [साधनं प्र] वक्ष्यते शुभम् ।
जिव्हायां भावयेद् वज्रां सर्वकर्माणि कुर्वते ॥ ति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0