भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 152

152.1

अथात्र महामण्डले समयमुद्राज्ञानं भवति ।
वज्ररत्नमयी मुद्रा सर्वबुद्धाभिषेकदा ।
महावज्रमणिं बध्वा वज्ररत्नं तु सिध्यति

152.2

वज्रद्विकं मणीकृत्वा धनं वज्रधराल्लभेत् ।
सा एवाङ्गु ष्ठवज्रेण मणिं दद्याद् हृदि स्थितं

152.3

कुड्मलाग्र्या मणिं बध्वा लोकेशो धनदो भवेत् ।
वज्रकर्ममणिन्दद्यान् महाविश्वमणिध्वजं

152.4

वज्रधात्वग्रमणिना बुद्धरत्नत्वमाप्नुयात् ।
समाग्रग्रा पृष्ठसंकोचा वज्रमङ्गुष्ठबन्धतः

152.5

इयं वज्रमणिः प्रोक्ता वज्रगर्भस्य पाणितः ।
अनया बुद्धमात्रया महावज्रमणिं लभेत्

152.6

रत्नवज्रां समाधाय सममध्योत्थिताङ्करां ।
अनया बद्धमात्रया स्वभिषेकाप्यवाप्नुयात्

152.7

सा एव मध्यमानामकनिष्ठा कुड्मलीकृत्वा ।
अनया तु धनं दद्यादवलोकितनामधृक्

152.8

वज्ररत्नप्रयोगेण तर्जन्यङ्गुष्ठकन्यसा ।
मध्यमाभ्यां नखसन्धानान् समानामाङ्कु रोत्थिता

152.9

वज्रबन्धं दृढीकृत्य तर्जनीभ्यां मणीकृता ।
प्रसारिताङ्गुष्ठमुखा हृदि सर्वार्थसिद्धिदा

152.10

वज्रबन्धं समाधाय मध्यमा मणियोजिता ।
मुद्रेयं मणिचिन्हस्य मणिरत्नप्रदायिका

152.11

स एवाङ्कुशयोगेन तर्जनीभ्यां समन्धिता ।
सर्वार्थकर्षणी मुद्रा मणिरत्नाङ्कुशी स्मृता

152.12

सा एव वलि[तां कृत्वा] तर्जन्या तर्जनी ग्रहा ।
वाणाकर्षणायोगेन कर्षयन् रागयेज्जगत्

152.13

सा एव साधुकारा तु तर्जन्यङ्गुष्ठयोजिता ।
सा एवाङ्गुष्ठसन्धानसंच्छन्नाग्र्याङ्गुली तथा

152.14

अङ्गुष्ठान्तरयोश्चैव पुनरग्र्या मुखे क्षणात् ।
मणिदृष्टिस्तु सा ख्याता दृष्ट्यर्थानां प्रहारिका

152.15

सर्वार्थसिद्धिमाला तु स्वभिषेकप्रदायिका ।
सा एव हृदये ऽङ्गुष्ठमुखसन्धानयोजिता

152.16

हृदये मणिसूर्या तु महातेजःप्रदायिका ।
मूर्ध्निस्था च समानाम पताकाग्रविदारिता

152.17

महावज्रमणि पूर्वं सर्वाशापरिपूरिका ।
सा एव हाससंस्था तु लीलया परिवर्तिता

152.18

रत्नाट्टहासनाम्ना वै हासात् सर्वार्थकारिका ।
सर्वाग्रमणिपद्मा तु धनहारी समाधिना

152.19

सा एवान्त्यादिदाना तु महादानप्रदायिका ।
अधर्गतसमाङ्गुष्ठतर्जनी मणिसंस्थिता

152.20

भणिकोशा हरेदर्थान् जगतां विक्रमेण तु ।
वज्रबन्धाग्रचक्रा तु समाङ्गुस्थप्रवेशिता

152.21

तर्जनीमणिसंस्थानाच्चक्रवर्तित्वदायिका ।
सा एवाञ्जली मुखबन्धे समुद्धृता

152.22

स तु सन्धाय वाचा वै स्वाज्ञया हरते धनं ।
महावज्रमणिं बध्वा रत्नवर्ष [प्रवर्षिता]

152.23

सर्वाङ्गुल्युपस्तोभा तु चतुःशो वर्षते धनं ।
महावज्रमणिं बध्वा नृत्यन्नुष्णीषमध्यतः

152.24

संपूज्य विधिवत्सर्वै सर्वरत्नैः संपूज्यते ।
[सर्वार्थसिद्धि] मुद्रां तु कण्ठदेशे परिष्वजेत्

152.25

मणिबन्धेति विख्याता रक्षा कवचिनी स्मृता ।
सा एव सर्वसिद्धयर्था यक्षयोगा मुखस्थिता

152.26

मणिदंष्ट्रेति [विख्या]ता भयात्सर्वार्थहारिणी ।
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रिता

152.27

संगृह्याङ्गुष्ठयोः सम्यग् मणिमुष्टिस्तु सिद्धिदा ।
पूजाग्रसमयानां तु वज्रधातुप्रयोगतः

152.28

यथावन्मणियोगेन समयाग्र्यो ऽत्र कल्पिताः ।
मध्यमा मणियोगेन ता एव तु विकल्पिताः

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc