सर्वतथागततत्त्वसंग्रह · अध्याय 153
एकाङ्कुश्यादियोगेन सर्वकर्मप्रसाधिका ॥ इति ॥
अथ महामणिकुलधर्ममुद्राज्ञानं भवन्ति, त्रः, ग्रः, त्रिः, ह्रीः, श्रीः, इः, रः हः, ध्रीः धीः, कृ, वा, रो, ढः, य, अः ।
रत्नमुष्टिं द्विधीकृत्य कर्ममुद्रास्तु साधयेद् ॥ इति ॥
सर्वतथागतकर्मसमयान् महाकल्पराजात् सर्वार्थसिद्धिमहामण्डलविधिविस्तरः समाप्तः ।
छप्तेर् 20 रत्न-गुह्य-मुद्र-मन्दल-विधि-विस्तर
अथ भगवान् पुनरपि सर्वतथागताभिषेकधारणीसमयसंभवरत्नाधिष्ठानं नाम समाधिं समापद्येमां स्वमुद्रामभाषत् ओं वज्ररत्नस्तूपे हूं ॥
अथ वज्रपाणिर्महाबोधिसत्व इमां स्वकुलसंभवां मुद्रामभाषत् ओं वज्राभिषेकमाले अभिषिञ्च समये हूं ॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्ररत्नाभिषेके हूं ॥
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं वज्रधर्माभिषिञ्च मां ॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वमुद्रामभाषत् ओं सर्वाभिषेकपूजासमये हूं ॥
देलिनेअतिओन् ओf थे मन्दल
अथ भगवानार्याकाशगर्भो बोधिसत्वो महासत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं रत्नगुह्यमिति स्मृतं
महामण्डलयोगन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये यथान्यायं बुद्धमुद्रां समालिखेत्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0