भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 151

151.1

तत्रैषां हृदयादि भवन्ति ।
ओं महामणि संयोगविश ॥
ओं समय संयोगदृढो मे भव ॥
ओं निधिज्ञानाविशाविश संयोग ॥
ओं सर्वकर्म स्फोट संयोग ॥
ततो महामणिकुलसर्वमुद्राज्ञानं शिक्षयेत् ।
अथ महामुद्रा भवन्ति ।
यथालेख्यानुसारतौ भावयंस्तु महामुद्राः ।
सर्वार्थोत्तमं सि[ध्यति चन्द्रमण्डलमध्यस्थाः ॥
ततो] महामुद्राणां [क्रिया भवन्ति ।]
बुद्धमुद्रा तु बुद्धत्वं सुसिद्धिर्वज्रगर्भयोः ।
रत्नाङ्क[श्या समाकर्षेत् मणिरामयानुरमेत्

151.2

मण्युदग्र्या संतोषका] मणिदृष्ट्यार्थहारिका ।
मणिमालाभिषेका तु मणिसूर्या सुतेजदा

151.3

चिन्तामणिर्यथेच्छदा रत्नहासार्थहारिका ।
धर्मरत्ना[प्राप्तं धर्मं त्या] गाग्री लाभमुत्तमं

151.4

रत्नकोशा महाकोशं मणिचक्राधिपत्यतां ।
भाषामार्गेण सिद्धिस्तु रत्नवृष्टिर्महाधनं

151.5

मणिपूजा सुपूज्यत्वं रत्नवर्मा दृढंकरी ।
रत्नदंष्ट्रा हरेदर्थं मणिमुष्ट्या तु सिध्यति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc