भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 14

14.1

इति ॥
अथ सर्वतथागतवज्रसमयमुद्राज्ञानं भवति ।
अञ्जलिं तु दृढं बध्वा सर्वाङगुलिनिबन्धितम् ।
वज्राञ्जलिः समाख्यातो वज्रबन्धः सुबन्ध[नात्

14.2

सर्व] समयमुद्रास्तु वज्रबन्धसमुद्भवाः ।
तासां बन्धं प्रवक्ष्यामि वज्रबन्धमनुत्तरम्

14.3

सत्त्ववज्रां दृढीकृत्य मध्यमोत्थासमाङकुराम् ।
मध्यमान्तरसंकोचान् द्वितीया बुद्धवर्णिता

14.4

मध्यमाङगुष्ठरत्ना तु पद्मसंकोचमध्यमा ।
पञ्चमी बुद्धमुद्रा तु तथैवाग्रसुकुञ्चिता

14.5

अथातः संप्रवक्ष्यामि तथागतकुलस्य हि ।
समयग्राहिका मुद्रा बन्धं सिद्धिं च कर्म च

14.6

पाणिद्वयमये चन्द्रे मध्यमाङ्गुलिवर्जिते ।
अन्त्याङ्गुलिमुखासङ्गाद वज्रं वै सत्त्ववज्रया

14.7

अग्राङ्कुशाग्रसंयोगाद् साधुकारप्रदायिका ।
वज्रसत्वचतुष्कस्य सिद्धिमुद्रागणो ह्ययम्

14.8

रत्नवज्रा समाङगुष्ठतर्जनीमुखसन्धनात् ।
सा एव मध्यमानामकनिष्ठा सुप्रसारिता

14.9

पताका तु समानामकनिष्ठाभ्यां समन्विता ।
हासस्थानस्थिता चैव सा एव परिवर्तिता

14.10

प्रसारितसमाङगुष्ठस्थिता कुञ्चिततर्जनी ।
सा एव वर्जकोशा तु मध्यमा मुखसन्धिता

14.11

सा एव तु समानामकनिष्ठा चक्रसंज्ञिता ।
निर्युक्ताङगुष्ठबन्धा तु प्रसारितमुखोत्थिता

14.12

कनिष्ठाङगुष्ठमुखयोः समाजात् कर्मवर्जिता ।
सा एव तु समाग्र्या वै हृदिस्था सुप्रसारिता

14.13

कुञ्चिताग्र् याग्रदंष्ट्रा तु कनिष्ठा सन्धिमोक्षिता ।
कनिष्ठान्तरतो ऽङगुष्ठौ पीडयेत्कुञ्चिताग्र्यया

14.14

हृदये तु समाङगुष्ठा सुप्रसारितमालिनी ।
अङगुल्यग्रमखोद्धान्ता नृत्यतो मूर्ध्नि संयुता

14.15

वज्रबन्ध त्वधो दानात् स्वाञ्जलिश्चोर्ध्वदायिका ।
समाङगुष्ठनिपीडा च सुप्रसारितलेपना

14.16

एकतर्जनीसंकोचा द्व्यङगुष्ठग्रन्थिबन्धिता ।
अङगुष्ठाग्र यकटा बन्धा वज्रटमुष्ट्यग्रसन्धिता ॥ इति

14.17

अथासां साधनं वक्ष्ये वज्रसाधनमुत्तमम् ।
स्वमुद्रया हृदिस्थया सत्त्ववज्रसमाधिना

14.18

अथासां कर्म वक्ष्यामि वज्रकर्म निरुत्तरम् ।
वज्रधात्वादिमुद्रासु समाजेन तथागताः

14.19

मण्डलाचार्यशिष्याणामधिष्ठास्यन्ति तत्क्षणात् ।
सत्त्ववज्र् यान्तु बद्धायां भवेद्वज्रधरोपमः

14.20

वज्राङ्कुश्यां बद्धमात्रायां सर्वबुद्धां समाह् वयेत् ।
रागवज्रप्रयोगेण स बुद्धानपि रागयेत्

14.21

[वज्रसाधुबन्धेन बुद्धदानतुष्टिं लभति ।]
वज्रतुष्ट्या जिनैः सर्वैः साधुकारैः प्रशंस्यते

14.22

रत्नवज्र् यान्तु बद्धायां बुद्धैः सो ऽप्यभिषिच्यते ।
वज्रसूर्यां बध्वा वै भवेद् बुद्धप्रभोपमः

14.23

वज्रकेतुधरो भूत्वा सर्वाशाः स तु पूरयेत् ।
वज्रहासप्रयोगेण सर्वबुद्धैः समं हसेत्

14.24

धर्मवज्रां समाधाय वज्रधर्मोपमो भवेत् ।
वज्रकोशां तु संगृह्य सर्वक्लेशां च्छिनत्ति सः

14.25

वज्रचक्रां दृढीकृत्वा मण्डलाधिपतिर्भवेत् ।
वज्रभाषप्रयोगेण वज्रवाक्सिद्धिरुत्तमा

14.26

कर्मवज्रां तु सन्धाय वज्रकर्मसमो भवेत् ।
वज्रवर्मां दृढीकृत्वा कायो वज्रमयो भवेत्

14.27

वज्रदंष्ट्राग्रमुद्रया दुष्टमारां स भञ्जति ।
वज्रमुष्टिं दृढां बध्वा सर्वमुद्रां वशन्नयेत्

14.28

लास्यया रतयो दिव्याः मालया भूषणानि च ।
गीतया स्फुटवाचो नित्यं पूजां लभति नृत्यया

14.29

धूपया ल्हादयेद् लोक पुष्पया रूपशोभिताम् ।
दीपया लोकशुद्धित्वं गन्धया दिव्यगन्धताम्

14.30

वज्राङकुशः समाकर्षेद् वज्रपाशा प्रवेशयेत् ।
वज्रस्फोटा तु बन्धयाद् वज्रघण्टा समाविशेद्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc