सर्वतथागततत्त्वसंग्रह · अध्याय 13
तं दृष्ट्वा ज्ञानसत्त्वं तु स्वशरीरे प्रभावयेत् ।
आकृष्य प्रवेश्य बध्वा वशीकृत्वा च साधयेत् ॥
तत्रैषां हृदयानि भवन्ति । वज्रसत्त्व अः ॥ वज्रावेशहृदयम् ॥
वज्रसत्त्व दृश्य ॥ महासत्वानुस्मृतिहृदयम् ॥
जः हूं वं होः ॥ महासत्वाकर्षणप्रवेशनबन्धनवशीकरणहृदयम ॥
"समयस्त्वम्" इति प्रोक्ते पृष्ठतश्चन्द्रमाविशेत् ।
तत्रात्मा भावयेत्सत्वं "समयस्त्वम्" अहं ब्रूवन्
यस्य सत्त्वस्य या मुद्रा तामात्मानन्तु भावयेत् ।
साधयेद्वज्रजापेन सर्वमुद्राप्रसाधनम्
"जः हूं वं होः" ब्रुवन् काये सर्वबुद्धान् प्रवेशयेत् ।
मनसा साधुयोगेन साधनं त्वपरम् महद् ॥ इति
अथासां कर्म प्रवक्ष्यामि वज्रकर्म निरुत्तरम् ।
बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयात्
सत्त्ववज्या तु संसिद्धः सर्वमुद्राधिपो भवेत् ।
सत्त्ववज्र यान्तु मुद्रायां सर्वरत्नाधिपः स तु
सिद्धस्तु धर्मवज्र या वै बुद्धधर्मधरो भवेत् ।
कर्मवज्रिणि मुद्रायां वज्रकर्मकरो भवेत्
सिद्ध्यते वज्रसत्त्वस्तु बन्धया सत्त्वमुद्रया ।
आकर्षयेद्वज्रधरां वज्राकर्षप्रयोगतः
वज्ररागमहामुद्रा सर्वबुद्धांस्तु रागयेत् ।
तोषयेत्सर्वबुद्धानां वज्रसाधप्रयोगतः
दद्याद् बुद्धाभिषेकाणि रत्नमुद्राविधिस्तथा ।
वज्रतेजा भवेच्छीघ्रं वज्रतेजःप्रयोगतः
वज्रकेतुधरं सेव्य भवेदाशाप्रपूरकः ।
वज्रहासविधिं योज्य सर्वबुद्धैः समं हसेत्
वज्रधर्मधरो भूयाद् वज्रधर्मप्रयोगतः ।
प्रज्ञाग्र्यः सर्वबुद्धानां वज्रतीक्ष्णप्रयोगतः
वज्रचक्रधरं सेव्य धर्मचक्रं स वर्तयेत् ।
बुद्धवाक्सिद्धिमाप्नोति वज्रभाषप्रयोगतः
वज्रकर्म[गतं] क्षिप्रं वज्रकर्माग्र्यसाधनात् ।
निबध्य वज्रकवचं वज्रकायत्वमाप्नुयात्
वज्रयक्षं तु वै साध्य वज्रयक्षसमो भवेत् ।
सर्वमुद्राप्रसिद्धस्तु वज्रमुष्टिनिबन्धनान्
वज्रलास्यां तु वै साध्य महावज्ररतिं लभेत् ।
वज्रमाला निबन्धस्तु सर्वबुद्धाभिषेकदः
योजयेद्वज्रगीतां तु वज्रगीताप्रयोगतः ।
वज्रनृत्यां तु संयोज्य सर्वबुद्धैः स पूज्यते
प्रल्हादयेज्जगत्सर्वं वज्रधूपाप्रयोगतः ।
वज्रपुष्पां तु संयोज्य वशीकुर्याज्जगत् स तु
वज्रालोकमहामुद्रा चक्षुर्दद्यात्प्रपूजयन् ।
सर्वदुःखहरो भूयाद्वज्रगन्धप्रयोगतः
वज्राङ्कुशसमाकर्षात् सर्वाकर्षकरः परः ।
सर्वप्रवेशको भूयाद् वज्रपाशप्रयोगतः
वज्रस्फोटन्तु संयोज्य सर्वबन्धक्षयो भवेद् ।
वज्रावेशविधिं योज्य सर्वावेशप्रसाधक
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0