सर्वतथागततत्त्वसंग्रह · अध्याय 132
अथात्र कर्ममण्डले आकर्षणादिविधिविस्तरं कृत्वा, यथावत्प्रवेश्यैवं वदेत् । "न त्वया कुलपुत्र कस्यचिदयं वक्तव्यः मा ते नरकपतनं भवेद्" इति ।
ज्नन
ततो ज्ञानान्युत्पादयेदिति । ततः पापदेशनाज्ञानं शिक्षयेदिति ।
लोकेश्वरमहामुद्रां भावयन् सुसमाहितः ।
पापानि देशयेच्छीघ्रं सर्वपापान् समाधयेत्
समयाग्रीन् समाधाय लोकेश्वरसमाधिना ।
देशयन् सर्वपापान्यानन्तर्याणि शोधयेत्
लोकेश्वरसमाधिन्तु भावयन् सुसमाहितः ।
देशयेत् सर्वपापानि सर्वपापप्रणाशनं
बध्वा चैकतमां सम्यक् कर्ममुद्रां समासतः ।
देशयेत्सर्वपापानि सर्वकर्मविशोधनम् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0