सर्वतथागततत्त्वसंग्रह · अध्याय 133
अथैषां हृदयानि भवन्ति ।
ओं सर्वपापसंशोधन महापद्म ॥
ओं सवानन्तर्यशोधन समयपद्म ॥
ओं सर्वपापप्रणाशन धर्मपद्म ॥
ओं सर्वकर्मावरणविशोधक कर्मपद्म ॥
ततः सर्वावरणपरिक्षयज्ञानं शिक्षयेत् ।
लोकेश्वरमहामुद्रां भावयेत् सुसमाहितः ।
शुध्य शुध्य इति प्रोच्य सर्वकर्माणि शोधयेत्
बध्वा वै कर्मसमयां लोकेश्वरसमाधिना ।
बुध्य बुध्य प्रवर्तस्तु सर्वकर्माणि शोधयेत्
लोकेश्वरसमापत्त्या धर्ममुद्रां तु भावयेत् ।
धी धी धी धी-ति प्रोच्यन् वै सर्वकर्माणि शोधयेत्
बध्वा वै कर्ममुद्रां तु लोकेश्वरसमाधिना ।
ही ही ही ही-ति सन्धाय सर्वकर्माणि शोधयेद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0