भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 123

123.1

तत्रैषां हृदयानि भवन्ति ।
ओं वज्रपद्म संयोग साधय ह्रीः ॥
ओं बुद्धमुकुट संयोग साधय श्रीः ॥
ओं पद्मपद्म संयोग साधय धीः ॥
ओं विश्वपद्म संयोग साधय स्त्रीः ॥
ततो यथावत् पद्मकुलगुह्यमहामुद्राज्ञानं भवति ।
कुड्मलाञ्जलिरग्रस्य वज्रक्रोधाङ्गुली द्विके ।
द्वयग्रा मणिस्तथा पद्मं वज्रबन्धन्तथैव

123.2

वज्रबन्धां समानीय सममध्याङ्कुरो स्थितो ।
तर्जन्यानामसंकोचा मुद्रा शाक्यमुनेर्दृढा

123.3

धर्मवज्रा हृदिस्था तु परिवर्त्य ललाटगा ।
समाधियोगा चोत्सङ्गे परिवर्त्य तु मूर्धगा

123.4

वज्रधात्वीश्वरीम्बध्वा चैत्यं पद्मप्रयोगतः ।
संधयेन्मध्यमाभ्यां तु बुद्धपद्मेति कीर्तिता

123.5

सा एवाङ्गुष्ठवज्रा तु द्व्यग्रखड्गाङ्कुशी तथा ।
पद्वज्रधरस्यैता गुह्यमुद्राः प्रकीर्तिताः

123.6

सा एवाङ्गुष्ठमुक्ता तु तर्जन्या तर्जनीग्रहा ।
वलिता सुरतिः प्रोक्ता साधुकार्या तथैव च

123.7

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता ।
कुञ्चिताग्र्यमुखस्था तु भृकुट्यां मध्यपद्मिनी

123.8

सा एव हृदये चैव सूर्यमण्डलदर्शिका ।
ध्वजबन्धेन सा एव शिरःपृष्ठे प्रसारिता

123.9

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्याग्रविग्रहा ।
तथैव पद्मखड्गा तु पद्मयोगाग्र्यसन्धनात्

123.10

वज्रबन्धं दृढिकृत्य वामाङ्गुष्ठप्रवेशनात् ।
शङ्खमङ्गुष्ठदण्डोत्थाङ्गुल्यग्रोत्थान्त्यपद्मिनी

123.11

सा एव सर्वसंकोचा कनिष्ठा पद्मसंयुता ।
अक्षमालाग्रगणनी दक्षिणाङ्गुष्ठयोगतः

123.12

वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता ।
समाग्र्या पद्मनेत्रा तु प्रनर्तन् परिवर्तिता

123.13

वज्रबन्धं दृढीकृत्य कनिष्ठा पद्मसंयुता ।
कुञ्चिता[ग्र्यं पीडयन्तु] द्वयङ्गुष्ठकवचीकृते- ॥ ति

123.14

सा एवाङ्गुष्ठदंष्ट्रा तु समाङ्गुष्ठप्रवेशिता ।
अतः परं प्रवक्ष्यामि समयाग्र्यो निरुत्तराः

123.15

वज्रबन्धन्तले कृत्वा तर्जनीपद्मसन्धिता ।
अङ्गुष्ठा बन्धपर्यङ्का गुह्यविश्वेश्वरी स्मृता

123.16

॥
तथैव वज्रबन्धेन कनिष्ठा मध्यसन्धिता ।
अङ्गुष्ठमुखयोर्वज्रन् पट्टमध्ये तथागतं

123.17

तथैव वज्रबन्धे तु पद्ममङ्गुष्ठसन्धितं ।
कृत्वा तु मुखतोद्धान्तं स्थितोत्सङ्गे समाधिना

123.18

तथैव वज्रबन्धे तु मुखतः समसन्धिता ।
सर्वाङ्गुल्या दृढीकृत्य तर्जनी वज्रसंयुता

123.19

तथैव वज्रबन्धे तु तर्जनी पद्मसन्धिता ।
अङ्गुष्ठा बन्धपर्यङ्का मध्यसंकोचविग्रहा

123.20

तथैव वज्रबन्धे तु वज्रमङ्गुष्ठसन्धिता ।
खड्गाङ्कुशी तथग्राभ्यां कनिष्ठा पद्मसंयुता

123.21

तथैव वलितां कृत्वा तर्जन्यङ्गुष्ठसंग्रहां ।
उत्थितान् तर्जनीं वामां कर्षयेत् सुदृढन्तथा

123.22

सा एव तु समीकृत्वा तर्जन्यङ्गुष्ठयोगतः ।
साधुकारप्रदात्री तु पद्मतुष्टेर्महात्मनः

123.23

तथैव वज्रबन्धं तु सर्वाग्रमुखसन्धितं ।
द्वयङ्गुष्ठमुखपीडन्तु समाग्र्या सन्निवेशितं

123.24

सा एव हृदि सूर्या तु मूर्ध्नि पद्मध्वजीकृता ।
परिवर्त्य च हासा तु स्थिता पद्माट्टहासिनी

123.25

वज्रवन्धन्तले कृत्वा धर्मवज्राग्रयोगतः ।
कनिष्ठाङ्ग ष्ठसन्धी तु तारायाः समयो ह्ययं

123.26

तथैव वज्रबन्धे तु ज्येष्ठाभ्यां खड्गपद्मिनी ।
तलचक्रा तथैवेह जापदात्री तथैव च

123.27

तथैव वज्रबन्धा तु खटकद्वयमोक्षिता ।
पुनश्च हृदये बन्धे गुह्यरक्षेति कीर्तिता

123.28

तथैव वज्रबन्धे तु कनिष्ठा पद्मसंयुता ।
तर्जनी दृढसंकोचा विकचाङ्गुष्ठदंष्ट्रिणी

123.29

सा एव मुष्टियोगेन द्वयङ्गुष्ठमुखपीडिता ।
पद्मगुह्यमहामुष्टि समयाग्री प्रकीर्तिता

123.30

सर्वासामेव चान्यासां पद्मलास्यादिसंज्ञिनां ।
वज्रबन्धं तले कृत्वाबन्धस्तादृश एव ही-ति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc