सर्वतथागततत्त्वसंग्रह · अध्याय 122
तत्रैषां हृदयानि भवन्ति ।
ओं महापद्म च्छेद मारय होः फट् ॥
ओं समयपद्म स्फोट नाशय रट् फट् ॥
ओं धर्मपद्म च्छेद विनाशय धृट् फट् ॥
ओं कर्मपद्म स्फोट स्फोटय जीवितमस्य कृट् फट् ॥
मुद्र
ततो धर्मसमयरहस्यमुद्राज्ञानं भवति ।
पद्मं तु योषितां चिन्त्य वज्रन्तस्योपरि स्वयं ।
रामयन् वज्रपद्माग्र्या समापत्त्या तु सिध्यति
पद्मं तु योषितां चिन्त्य बुद्धन्तस्योपरि स्वयं ।
रामयन् बुद्धमुकुटां भावयन् सो ऽस्य सिध्यति
पद्मं तु योषितां चिन्त्य पद्मं तस्योपरि स्वयं ।
रामयन् पद्मपद्माग्री शुद्धां सिद्धिमवाप्नुते
पद्मं तु योषितां चिन्त्य विश्वन्तस्योपरि स्वयं ।
रामयन् विश्वपद्याग्री विश्वां सिद्धिमवाप्नुयाद् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0