सर्वतथागततत्त्वसंग्रह · अध्याय 124
ततः पद्मकुलगुह्यधर्ममुद्रा भवन्ति ।
ह्राः । ग्रा । प्रा । हा । स्र । सा । दः । हः ।
गा । धा । क्रा । वा । व । रा । ष्ट्र । मः ।
कर्ममुद्राः समासेन मुष्टिरेव द्विधीकृते- ॥ ति ॥
सर्वतथागतधर्मसमयान् महाकल्पराजात् पद्मगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 17
ज्नन-मन्दल-विधि-विस्तर
अथ भगवान् पुनरपि सर्वतथागतधर्मसमयज्ञानसमयसंभवाधिष्ठानन् पद्मन्नाम समाधिं समापद्ममां स्वविद्योत्तमामभाषत् ओं धर्मसमाधिज्ञानतथागत हूं ॥
अथ वज्रपाणिर्महाबोधिसत्व इमं स्वकुलधर्मसंभवं स्वविद्योत्तममभाषत् ओं वज्रधर्म हूं ॥
अथ वज्रगर्भो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं रत्नधर्म हूं ।
अथ वज्रनेत्रो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं धर्मधर्म हूं ॥
अथ वज्रविश्वो बोधिसत्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं कर्मधर्म हूं ॥
देलिनेअतिओन् ओf थे मन्दल
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्व इदं स्वधर्ममण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि ज्ञानमण्डलमुत्तमं ।
वज्रधातुप्रतीकाशं धर्मज्ञानमिति स्मृतं
महामण्डलयोगेन सुत्रयेत् सर्वमण्डलं ।
तस्य मध्ये समालेख्यं ज्ञानवज्रतथागतं
तस्य पार्श्वेषु सर्वेषु महासत्वा यथाविधि ।
विश्वेश्वरादयो लेख्याः समापन्नाः समाहिता
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0