भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 112

112.1

ततः पद्मकुलसमयमुद्राज्ञानं भवति ।
वज्रबन्धं समाधाय समाङ्गुष्ठान्त्यसन्धानात् ।
मुद्रेयं धर्मसमया बुद्धधर्मप्रदायिका

112.2

वज्रबन्धं समाधाय समाग्र्यानाममध्यमा ।
बुद्धविद्योत्तमस्येयं मुद्रा बुद्धत्वदायिका

112.3

वज्रबन्धं समाधाय मध्यमा वज्रसंयुता ।
वज्रविद्योत्तमस्येयं मुद्रा वज्रत्वदायिका

112.4

सा एव मणिमध्या तु वज्ररत्नप्रदायिका ।
मध्यकुड्मलयोगेन पद्मसिद्धिप्रदायिका

112.5

वज्राञ्जलिन्तु सन्धाय वज्रकर्मकरी भवेत् ।
धर्मवज्रां समाधाय समयः सिध्यते क्षणात्

112.6

वज्रबन्धं समाग्रन्तु बुद्धसिद्धिप्रदायिका ।
अतः परं प्रवक्ष्यामि सत्वमुद्रा विशेषतः

112.7

वज्राञ्जलिं समाधाय सममध्योत्थिता तथा ।
कनिष्ठाङ्गुष्ठविकचा विश्वपद्मेति कीर्तिता

112.8

सा एवाङ्गुष्ठपर्यङ्का कुञ्चिताग्राग्र्यविग्रहा ।
मध्यवज्रजटा मूर्ध्नि जटाबुद्धेति कीर्तिता

112.9

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठमधस्तनं ।
तर्जनीद्वयसंकोचा समुद्गता समाधितः

112.10

समाञ्जलिं समाधाय तर्जनी वज्रपीडिता ।
विकसिताङ्गुष्ठमुखयोर्मुद्रामोघेश्वरस्य तु

112.11

वज्रबन्धं दृढीकृत्य समुत्तानं तु बन्धयेत् ।
समाङ्गुष्ठकृता पद्मे पद्मबुद्धेति कीर्तिता

112.12

अङ्गुष्ठवज्राग्राभ्यामङ्कुशं खड्गमेव च ।
अन्त्यद्वयविकासा च मध्यानामाग्रकुड्मला

112.13

समाञ्जलिं समाधाय वलिताङ्गुष्ठकुञ्चिता ।
तर्जन्या तर्जनीङ्गृह्याकर्षयेत् पद्मवाणया

112.14

समाञ्जलिन्तथोत्तानां बन्धयेत्साधुमुद्रया ।
साधुकारां [प्रददाति] साधुपद्मेति कीर्तिता

112.15

समाञ्जलिं दृढीकृत्य कुञ्चिताग्र्या मुखस्थिता ।
कनिष्ठाभ्यां तु विकचा पद्मभृकुटिरुच्यते

112.16

वज्रबन्धं दृढीकृत्य हृद[ये तु] प्रसारयेत् ।
पद्मसूर्येति विख्याता सर्वाङ्गु लिसुमण्डला

112.17

समाञ्जलिं दृढीकृत्य तर्जनीभ्यां मणीकृता ।
पद्मरत्नध्वजाग्री तु मूर्ध्नि बाहुप्रसारिता

112.18

वज्रबन्धं शिरोमूर्ध्नि प्रसार्याग्रमुखैः सह ।
स्वमुखेनाट्टहासेन एकादशमुखी भवेत्

112.19

समाधिपद्मां सन्धाय समाङ्गुष्ठसमुत्थिता ।
पद्मतारस्य मुद्रेमं सर्वसिद्धिप्रदायिका

112.20

पद्मतारस्य मुद्रा तु पद्म योगाग्र्यबन्धनात् ।
पद्मखड्गस्य मुद्रेयं खड्गाकारनियोजनात्

112.21

कुड्मलान्त्यमहापद्मास्तच्चाङ्गुष्ठगदा तथा ।
कुञ्चिताग्र्यमहाशङ्खा वज्रबन्धेन चक्रिता

112.22

वज्राञ्जलिं दृढीकृत्य दक्षिणौंकारवेष्टिता ।
वामग्र्याङ्गुष्ठजापा तु सर्वाग्रविकचाम्बुजा

112.23

वज्राङ्गुलिं समाधाय वामदक्षिणतस्तथा ।
नृत्यं सलीलवलिता मूर्ध्निस्था नृत्यपद्मिनी

112.24

वज्राञ्जलिं दृढीइकृत्य सर्वाग्रकवचा तथा ।
परिवर्त्य तु पद्मेन हृदि स्थाप्य दृढंकरी

112.25

वज्राञ्जलिं दृढीकृत्य गुह्ययक्षप्रयोगतः ।
प्रसारिताञ्जलिपुटा मुखस्था पद्मयक्षिणी

112.26

वज्रमुष्टिं द्विधीकृत्य कुञ्चयित्वा तु मध्यमे ।
स्वाङ्गुष्ठपृष्ठनिहिते पद्ममुष्टिरुदाहृता

112.27

वज्रधातुप्रयोगेण वज्राञ्जलिसमुत्थिता ।
सर्वपूजाग्र्यदेवीनां समयाग्र्यस्तु बन्धयेत्

112.28

वज्रबन्धं दृढीकृत्य सन्धयेत्तर्जनीद्वयं ।
संकोचात्पुरतः सन्धेत् हयग्रीवेति कीर्तिता

112.29

पद्माञ्जलिं समाधाय तर्जनीग्रन्थिबन्धना ।
अमोघपाशमुद्रेयं तर्जन्यङ्गुष्ठशङ्कला

112.30

पद्माञ्जलिं समाधाय वज्रावेशप्रयोगतः ।
अङ्गुष्ठाभ्यां तु संपीड्य कनिष्ठानामिकान्तराव्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc