सर्वतथागततत्त्वसंग्रह · अध्याय 113
इति ॥
अथ पद्मकुलधर्ममुद्राज्ञानं भवति ।
ह्री । ग्री । प्री । ही । श्री । सी । दी । हीः ।
गी । धी । क्री । वी । वि । री । ष्ट्री । अः ।
पद्ममुष्टिं द्विधीकृत्य कर्ममुद्राः समाधयेद् ॥ इति ॥
सर्वतथागतधर्मसमयान् महाकल्पराजात् सकलजगद्विनयमहामण्डलविधिविस्तरः समाप्तः ॥
छप्तेर् 16 पद्म-गुह्य-मुद्र-मन्दल-विधि-विस्तर
एमनतिओन् ओf देइतिएस् fरोम् समधि
अथ भगवान् पुनरपि सर्वतथागतधर्मधारणीसमयसंभवमुद्राधिष्ठानपद्मन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मसमये हूं ॥
अथ वज्रपाणिर्महाबोधिसत्वः इमां स्वकुलसंभवां विद्योत्तमामभाषत् ओं वज्रसमये हूं ॥
अथ वज्रगर्भो बोधिसत्व महासत्व इमां स्वविद्योत्तमामभाषत् ओं मणिरत्नसमये हूं ॥
अथ वज्रनेत्रो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं पद्मसमये हूं ॥
अथ वज्रविश्वो बोधिसत्व इमां स्वविद्योत्तमामभाषत् ओं कर्मसमये हूं ॥
अथ भगवानार्यावलोकितेश्वरो बोधिसत्व इदं स्वकुलसमयमुद्रामण्डलमभाषत् ॥
अथातः संप्रवक्ष्यामि मुद्रामण्ड[लानुत्तरं ।]
वज्रधातुप्रतीकाशं पद्मगुह्यमिति स्मृतं
महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं ।
तस्य मध्ये सुपद्मे वै वज्रधात्वीश्वरीं लिखेत्
[तस्य] सर्वपार्श्वेषु समयाग्र्यो यथोपरि ।
धर्मवज्र्यादयो लेख्याः स्वविद्याभिः समन्धिताः
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0