भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 111

111.1

तत्रैषां हृदयानि भवन्ति ।
पद्मविश्व ॥
धर्मकायपद्म ॥
बुद्धाभिषे[क ॥
लोकेश्व]र ॥
ततो महामण्डलसर्वमुद्राज्ञानं शिक्षयेत् ।
तत्र प्रवेशं तावन् महामुद्राज्ञानं भवति ।
चन्द्रमण्डलमध्यस्थां यथा लेख्यानुसारतः ।
पद्म[प्रति]ष्ठां सत्वान्स्वं भावयेत्स्वयमात्मने ॥ ति ॥
अथासां कर्म भवति ॥
बध्वा बुद्धमहामुद्राममितायुसमो भवेत् ।
वज्रपद्मं समाधाय लोकेश्वर[समो] भवेत्

111.2

बुद्धाभिषेकां बध्वा वै सुगतैः सो ऽभिषिच्यते ।
पद्मपद्मा समाधिं तु दद्याद् विश्वा सुविश्वतां

111.3

वैश्वरूप्यं वैनेयांस्तु बुद्ध रत्नाभिषेकदा ।
पद्मसत्वि समाधिन्तु पद्मक्रोधेश्वरीं श्रियं

111.4

वज्रलोकेश्वरी सिद्धिमुत्तमां पद्मरागिणी ।
बुद्धेश्वरी तु बुद्धत्वं वज्रपद्मा सुसिद्धिदा

111.5

कामेश्वरी सुरागित्वं दद्यात्तुष्टिन्तु साधुता ।
भृकुटिः क्रोधशमनी पद्मसूर्या सुतेजदा

111.6

पद्मचन्द्रा महाकान्तिं दद्याद् हासा सुहासतां ।
तारया चोत्तरा सिद्धिः सौभोग्यं पद्मखङ्गया

111.7

नीलकण्ठा महाकर्षा सिद्धिं पण्डरवासिनी ।
पद्मनर्तेश्वरी सिद्धिमभया अभयन्ददा

111.8

प्रचण्डा दुष्टदमनी पद्ममुष्टिः सुसाधिका ।
लास्या रतिं धनं माला सर्वं गीता सुखं नृत्या

111.9

धूपा ल्हादं शुभं पुष्पादीपा दृष्टिं गन्ध सुगन्धतां

111.10

हयग्रीवा समा[कर्षणा]मोघा तु वशङ्करी ।
पद्मस्फोटा महाबन्धा सर्वावेशा तु घण्टिके-ति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc