सर्वतथागततत्त्वसंग्रह · अध्याय 109
तत्रैषां हृदयानि भवन्ति ।
ओं सर्वजगद्वशिता ज्ञानपद्माविश अः ॥
ओं ज्ञानपद्म तिष्ठादृश्यं कुरु वं ॥
ओं समाधि विश्वपद्म तिष्ठ वैश्वरूप्यं दर्शय भगवन् ढः ।
ओं समाधि वज्रपद्म तिष्ठोत्तिष्ठ शीघ्रं ह्रीः ॥
लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः ।
पुरस्तस्य समाकर्षेत् हयग्रीवाग्र्यमुद्रया
लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै ।
अमोघपाशमुद्रया वशीकुर्याज्जगत्स तु
लोकेश्वरं समालिख्य मण्डलादिषु सर्वतः ।
पुरस्तस्य बन्धनीयात् पद्मस्फोटाग्रमुद्रया
लोकेश्वरं समालिख्य मण्डलादिषु तस्य वै ।
पुरतः पद्मघण्टया सर्वावेशनमुत्तमम् ॥ इति
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0