भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 110

110.1

तत्रैषां हृदयानि भवन्ति ।
ओं पदमाङ्कुशाकर्षय सर्वमहासत्वान् हूं जः ॥
ओं अमोघपाश क्रोध हूं होः ॥
ओं पद्मस्फोट वं ॥
ओं पद्मघण्टावेशय सर्वं अः ॥
चतुःपद्ममुखं सत्वं भावयेत्स्वयमात्मना ।
स्वमात्मानन्ततः सिद्धो बहुरूपी भवेत्क्षणात्

110.2

भावयन् पद्मपद्मन्तु स्वमात्मानन्तथात्मना ।
वज्रधर्मसमाधिस्थः प्राप्नोति पद्ममक्षरं

110.3

लोकेश्वरजटामध्ये भावयन् स्वयमात्मना ।
बुद्धबिम्बं स्वमात्मानममितायुसमो भवेत्

110.4

भावयन् स्वयम्[आत्मना विश्व]रूपसमाधिना ।
विश्वरूपसमाधिस्थो लोकेश्वरसमो भवेत् ॥ इति

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc