भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 108

108.1

तत्रैतानि हृदयानि भवन्ति ।
पद्मश्रियं वशमानय होः ॥
पद्माभिषेकं प्रयच्छ वम् ॥
पद्मसरस्वती शोधय हूं ॥
पद्मोर्ध्वगान् वशीकुरु ज्जः ॥
इमानि पद्मकुलमुद्राज्ञानानि ॥
कुड्ये वाप्यथ वाकाशे भावयन् पद्ममुत्तमं ।
अनया सर्वसत्वानां वशिकरणमुत्तमम्

108.2

आकाशे वान्यदेशे वा भावयन् पद्ममुत्तमं ।
यदा पश्येत् तदा गृह्णेद् रुच्यानदृश्यतां व्रजेत्

108.3

कुड्ये वाप्यथ वाकाशे विश्वपद्मं समाधयेत् ।
पश्यं गृण्हेद्यथा तं तु विश्वरूपी तदा भवेत्

108.4

आकाशे वान्यदेशे वा वज्रपद्मं तु भावयेत् ।
तं तु गृह्णं क्षणाच्चैव पद्मविद्याधरो भवेत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc