भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 102

102.1

इति ॥
अथार्यावलोकितेश्वरो बोधिसत्वो महासत्वः सर्वतथागताध्येषणवचनमुपश्रुत्य, येन भगवांच्छाक्यमुनिस्तथागतः तेनाभिमुखं स्थित्वा, तद्वज्रपद्मं स्वहृदि प्रतिष्ठाप्येदमुदानमुदानयामास ।
अहो हि परमं शुद्धं वज्रपद्ममिदं मम ।
पिताहमस्य च सुतो ऽधितिष्ठ कुलं त्विदम् ॥ इति ॥
एमनतिओन् ओf थे देइतिएस् fरोम् समधि
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतवज्रधर्मसमयसंभवाधिष्ठानपद्मन्नाम समाधिं समापद्येदं सर्वतथागतधर्मसमयं नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार ह्रीः ॥
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यः पद्माकारा अनेकवर्णरूपलिङ्गेर्यपथा रश्मयो विनिःसृत्य, सर्वलोकधातुषु रागादीनि विशुद्धधर्मताज्ञानानि संशोध्य, पुनरप्यागत्यार्यावलोकितेश्वरस्य हृदये प्रविष्टा इति ॥
अथ भगवान् सर्वतथागतधर्मसमयन्नाम स्वविद्योत्तममभाषत् ओं वज्रपद्मोत्तम ह्रीः ॥
अथ वज्रपाणिर्महाबोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्र हुं फट् ॥
अथ वज्रगर्भो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्ररत्नोत्तम त्रः ॥
अथ वज्रनेत्रो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्रविद्योत्तम ह्रीः ॥
अथ वज्रविश्वो बोधिसत्व इदं स्वविद्योत्तममभाषत् ओं वज्रविश्वोत्तम अः ॥
अथ खल्ववलोकितेश्वरो बोधिसत्वो महासत्वः सर्वरूपसंदर्शनं नाम समाधिं समापद्येदं सर्वजगद्विनयसमयन्नाम स्वहृदयमभाषत् ओं हुं ह्रीः होः ॥
अथास्मिन् भाषितमात्रे आर्यावलोकितेश्वरहृदयात् स एव भगवां वज्रधरः आर्यावलोकितेश्वररूपधारिणः पद्मप्रतिष्ठाः पद्ममुद्राचिन्हधारिविचित्रवर्णरूपवेषालङ्काराः तथागतादिसर्वसत्वमूर्तिधारा महाबोधिसत्वविग्रहा भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वसत्वानां यथा वैनेयतया स्वरूपाणि सन्दर्श्याशेषानवशेषसत्वधातुविनयं कृत्वा, पुनरप्यागत्य, वज्रधातुमहामण्डलयोगेन भगवतः शाक्यमुनेस्तथागतस्य सर्वतश्चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः ।
अहो हि सर्वबुद्धानामुपायः करुणात्मनां ।
यत्र ह्यु पायविनयाद् देवा अपि भवन्ति हि ॥
देलिनेअतिओन् ओf थे मन्दल
अथ भगवानवलोकितेश्वरो बोधिसत्वो महासत्वः स्वकुलमुत्पाद्य, सर्वतथागतेभ्य सर्वसत्वाभयार्थप्राप्त्युत्तमसिद्धिवज्रधर्मताज्ञानाभिज्ञावाप्तिफलहेतोर्निर्या[त्य, सर्वजग]द्विनयं नाम महामण्डलमभाषत् ।
अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् ।
वज्रधातुप्रतीकाशं जगद्विनयं संज्ञितं

102.2

चतु[रश्रं] चतुर्द्वारं चतुस्तोरणशोभितं ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितं

102.3

सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं

102.4

तस्याभ्यन्तरतः सूत्रं चतुरश्रं परिक्षिपेत् ।
द्वितीयं द्वारकोणं तु पद्माकारं प्रकल्पयेत्

102.5

अष्टस्तम्भप्रयोगेण पद्ममष्टदलं लिखेत् ।
तस्य केसरमध्ये तु बुद्धबिम्बन्निवेशयेत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc