सर्वतथागततत्त्वसंग्रह · अध्याय 101
इति ॥
सर्वतथागतवज्रसमयान्महाकल्पराजात् सर्ववज्रकुलकर्ममण्डलविधिविस्तरः परिसमाप्तः ॥
छप्तेर् 15 एपिलोगुए ओf थे सर्व-तथगत-वज्र-समय नम मह-कल्प-रज
अथ वज्रपाणिः सर्ववज्रकुलान् सर्वसत्त्वार्थं [स्थित्वा] यावन् सन्नियोज्यावैवर्तिकभूमौ प्रतिष्ठाप्य, जानन्नेव भगवन्तमेतदभाषत् । "अहं भगवद्भिः सर्वतथागतैस्तव गुह्यधारित्वे ऽभिषिक्तः । [यदा]ज्ञापयस्व किन्तत् तथागतगुह्यम्!" इति ॥
अथ भगवान् सर्वतथागतगुह्यवज्रं नाम समाधिं समापद्येदं [सर्वतथागतगुह्यमभाषत् ।
यथा यथा हि विनयाः सर्वसत्वाः] स्वभावतः ।
तथा तथा हि सत्वार्थं कुर्याद्रागादिभिः शुचिः ॥
अथ वज्रपाणिरिदं स्वगुह्यतामभाषत् ।
[सर्वसत्वहितार्थाय बुद्धशासनहेतुतः ।]
मारयेत्सर्वसत्वास्तु न स पापेन लिप्यते ॥
अथ वज्रगर्भो बोधिसत्व इदं स्वमणिगुह्यमभाषत् ।
सर्वसत्वहिता[र्थाय बुद्धकायप्र]योगतः ॥
हरस्तु सर्वचिन्तानि न स पापेन लिप्यते ॥
अथ वज्रनेत्रो बोधिसत्व इदं स्वधर्मगुह्यमभाषत् ।
रागशुद्धः सुखा[समः जिनगोचरदानतः ।]
सहाय परदारा निषेवे स पुण्यमाप्नुते ॥
अथ वज्रविश्वो बोधिसत्व इदं स्वकर्मगुह्यमभाषत् ।
सर्वसत्वहितार्थाय बुद्धशासनहेतुतः ।
सर्वकर्माणि कुर्वन् वं स बहुपुण्यमाप्नुते ॥ इति ॥
अथ भगवान् वैरोचनस्तथागतो भगवते गुह्यधारि[णे वज्र]धराय साधुकारैरभिष्टवेत् ॥
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते ।
वज्रधर्माय ते साधु साधु ते वज्रकर्मणे ॥
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरम् ।
सर्वतथागतं गुह्यं महायानाभिसंग्रहम् ॥ इति ॥
सर्वतथागतत्वसंग्रहात् सर्वतथागतवज्रसमयो नाम महाकल्पराजः परिसमाप्तः ॥
छप्तेर् 16 सकल-जगद्-विनय-मह-मन्दल-विधि-विस्तर
ह्य्म्न् ओf 108 नमेस् ओf अवलोकितेस्वर
अथ सर्वतथागताः पुनः समाजमागम्य, [तमेव वज्रधरं] भगवन्तं सर्वधर्मेश्वरमवलोकितेश्वरमनेन नामाष्टशतेनाध्येषितवन्तः ।
पद्मसत्व महापद्म लोकेश्वर महेश्वर ।
अवलोकितेश धीराग्र्य वज्रधर्म नमो ऽस्तु ते
धर्मराज महाशुद्ध सत्वराज महामते ।
पद्मात्मक महापद्म पद्मनाथ नमो ऽस्तु ते
पद्मो[द्भव] सुपद्माभ पद्मशुद्ध सुशोधक ।
वज्रपद्म सुपद्माङ्ग पद्मपद्म नमो ऽस्तु ते
महाविश्व महालोक महाकार्य महोपम ।
महाधीर महावीर महाशौरे नमो ऽस्तु ते
सत्वाशय महायान महायोग पितामह ।
शम्भु शङ्कर शुद्धार्थ बुद्धपद्म नमो ऽस्तु ते
धर्मतत्वार्थ सद्धर्म शुद्धधर्म सुधर्मकृत् ।
महाधर्म सुधर्माग्र्य धर्मचक्र नमो ऽस्तु ते
बुद्धसत्व सुसत्वाग्र्य धर्मसत्व सुसत्वधृक् ।
सत्वोत्तम सुसत्वज्ञ सत्वसत्व नमो ऽस्तु ते
अवलोकितेश नाथाग्र्य महानाथ विलोकित ।
आलोकलोक लोकार्थ लोकनाथ नमो ऽस्तु ते
लोकाक्षराक्षरमहा अक्षराग्र्याक्षरोपम ।
अक्षराक्षर सर्वाक्ष चक्राक्षर नमो ऽस्तु ते
पद्महस्त महाहस्त समाश्वासक दायक ।
बुद्धधर्म महाबुद्ध बुद्धात्मक नमो ऽस्तु ते
बुद्धरूप महारूप वज्ररूप सुरूपवित् ।
धर्मालोक सुतेजाग्र्य लोकालोक नमो ऽस्तु ते
पद्मश्रीनाथ नाथाग्र धर्मश्रीनाथ नाथवान् ।
ब्रह्मनाथ महाब्रह्म ब्रह्मपुत्र नमो ऽस्तु ते
दीप दीपाग्र्य दी[पोग्र दीपा]लोक सुदीपक ।
दीपनाथ महादीप बुद्धदीप नमो ऽस्तु ते
बुद्धाभिषिक्त बुद्धाग्र्य बुद्धपुत्र महाबुध ।
बुद्धाभिषेक मूर्धाग्र्य बुद्धबुद्ध [नमो ऽस्तु] ते
बुद्धचक्षोर्महाचक्षोर्धर्मचक्षोर्महेक्षण ।
समाधिज्ञान सर्वस्व वज्रनेत्र नमो ऽस्तु ते
यैवं सर्वात्मना गौणं नाम्नामष्टशतं तव ।
भावयेत्स्तुनुयाद् वापि लोकैश्वर्यमवाप्नुयात्
अध्येषयाम त्वां वीर प्रकाशय महामुने ।
स्वकं तु कुलमुत्पाद्य धर्ममण्डलमुत्तमम्
मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0