भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 103

103.1

तत्रेदं बुद्धप्रवेशहृदयं भवति बुद्ध हूं ॥
बुद्धस्य सर्वतो लेख्याः पद्ममध्ये प्रतिष्ठा ।
वज्रं रत्नं तथा पद्मं विश्वपद्मं तथैव च ॥
तत्रैषां हृदयानि भवन्ति ।
ओं ॥
हुः ॥
धीः ॥
कृः ॥
वज्रवेगेन निष्क्रम्य जगद्विनयमण्डलं ।
तत्र लोकेश्वरः कार्यः सर्वरूपान्समुत्सृजन्

103.2

तस्य पार्श्वेषु सर्वेषु वज्रगर्वादियोगतः ।
बुद्धादयो महासत्वां पद्मचिन्हधरां लिखेत्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc