भाषा

ENहिગુ
ग्रंथ पाठ

सर्वतथागततत्त्वसंग्रह · अध्याय 100

100.1

मुद्र
अथात्र कर्ममण्डले समाकर्षणादिकर्म कृत्वा, यथावद् वज्रधारिकर्मसमयमुद्रां बध्वैवं वदेत् ["न त्वया कस्यचिददृष्टदेवकुलस्या]ज्ञातकर्मस्येदं गुह्यकर्म वक्तव्यं, मा ते समयो व्यथेद्!" इति उक्त्वा, वज्राचार्यः स्वकर्मवज्रधारिसमयमुद्रां बन्धयेत्; क्रोधदृष्ट्या निरीक्षन्निदमुत्तारयेत् ओं वज्रधार्यावेशय प्रवेशय नृत्यापय सर्वकर्मसिद्धिं प्रयच्छ हुं अ हूं अ ल ल ल ल वज्रि ॥
ततः स्वयमाविश्य प्रविशेति, मुद्राप्रतिमुद्राभिर्नृत्योपहारपूजां करोति । ततः प्रभृति सर्वकर्माणि कायवाग्दृष्टिमनोवज्रमुद्राभिरीप्सितेन करोति ।
ततो मुखबन्धं मुक्त्वा, नृत्योपहारमुद्राज्ञानं शिक्षयेत् ।
बुद्धवज्रधरादीनां स्मयाग्र्यो द्विधीकृताः ।
वज्रलास्यादिपूजां तु वज्रविद्योत्तमस्य वै

100.2

सर्वासां चैव विद्यानां यथावदनुपूर्वशः ।
नृत्योपहारपूजाभिः पूजयेत्कर्ममण्डलं

100.3

वज्रनृत्यप्रयोगेण महामुद्रास्तु संक्षिपेत् ।
समयाग्र्य द्विधीकृत्य प्रतिमुद्राभिमोक्षयेत्

100.4

आभिर्नृत्योपहारेण पूजयं सर्वनायकान् ।
महावज्रधरादिश्च कर्मसिद्धि भवेद् ध्रुवम्

मूल पाठ: Sarvatathāgatatattvasaṃgraha · Edition: Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987. · Data entry Udip Shakya Anula Shakya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc